Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    अ॒पां यो अग्ने॑ प्रति॒मा ब॒भूव॑ प्र॒भूः सर्व॑स्मै पृथि॒वीव॑ दे॒वी। पि॒ता व॒त्सानां॒ पति॑र॒घ्न्यानां॑ साह॒स्रे पोषे॒ अपि॑ नः कृणोतु ॥

    स्वर सहित पद पाठ

    अ॒पाम् । य: । अग्ने॑ । प्र॒ति॒ऽमा । ब॒भूव॑ । प्र॒ऽभू: । सर्व॑स्मै । पृ॒थि॒वीऽइ॑व । दे॒वी । पि॒ता । व॒त्साना॑म् । पति॑: । अ॒घ्न्याना॑म् । सा॒ह॒स्रे । पोषे॑ । अपि॑ । न॒: । कृ॒णो॒तु॒ ॥४.२॥


    स्वर रहित मन्त्र

    अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी। पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥

    स्वर रहित पद पाठ

    अपाम् । य: । अग्ने । प्रतिऽमा । बभूव । प्रऽभू: । सर्वस्मै । पृथिवीऽइव । देवी । पिता । वत्सानाम् । पति: । अघ्न्यानाम् । साहस्रे । पोषे । अपि । न: । कृणोतु ॥४.२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 2

    टिप्पणीः - २−(अपाम्) आपः, आप्ताः प्रजाः-दयानन्दभाष्ये यजु० ६।२७। व्याप्तानां प्रजानाम् (यः) ऋषभः परमेश्वरः (अग्रे) सृष्टेः प्राक् (प्रतिमा) प्रतिमीयतेऽनया, प्रति+माङ् माने-अ। प्रत्यक्षं मानकर्त्री सर्वज्ञात्री शक्तिः। परमेश्वरः (बभूव) (प्रभूः) अन्येभ्योऽपि दृश्यते। पा० ३।२।७८। भू सत्तायाम्-क्विप्। समर्थः। (सर्वस्मै) सर्वजगद्धिताय (पृथिवी) (इव) (देवी) दिव्यगुणयुक्ता (पिता) पालकः (वत्सानाम्) वृतॄवचिवसि०। उ० ३।६२। वस निवासे-स। निवासशीलानाम् (पतिः) स्वामी (अघ्न्यानाम्) अ० ३।३०।१। अघ्न्यादयश्च। उ० ४।१—१२। नञ्+हन हिंसागत्योः-यक्। अहन्तॄणां प्रजापतीनाम् (साहस्रे) म० १। महापराक्रमयुक्ते (पोषे) पोषणे। अभ्युदये (अपि) अवधारणे (नः) अस्मान् (कृणोतु) करोतु ॥

    इस भाष्य को एडिट करें
    Top