Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 14
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - पथ्यापङ्क्तिः सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    यथा॒ वात॑श्चा॒ग्निश्च॑ वृ॒क्षान्प्सा॒तो वन॒स्पती॑न्। ए॒वा स॒पत्ना॑न्मे प्साहि॒ पूर्वा॑ञ्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ॥

    स्वर सहित पद पाठ

    यथा॑ । वात॑: । च॒ । अ॒ग्नि: । च॒ । वृ॒क्षान् । प्सा॒त: । वन॒स्पती॑न् । ए॒व । स॒ऽपत्ना॑न् । मे॒ । प्सा॒हि॒ । पूर्वा॑न् । जा॒तान् । उ॒त । अप॑रान् । व॒र॒ण: । त्वा॒ । अ॒भि । र॒क्ष॒तु॒ ॥३.१४॥


    स्वर रहित मन्त्र

    यथा वातश्चाग्निश्च वृक्षान्प्सातो वनस्पतीन्। एवा सपत्नान्मे प्साहि पूर्वाञ्जाताँ उतापरान्वरणस्त्वाभि रक्षतु ॥

    स्वर रहित पद पाठ

    यथा । वात: । च । अग्नि: । च । वृक्षान् । प्सात: । वनस्पतीन् । एव । सऽपत्नान् । मे । प्साहि । पूर्वान् । जातान् । उत । अपरान् । वरण: । त्वा । अभि । रक्षतु ॥३.१४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 14

    भावार्थ -
    (यथा) जिस प्रकार (वातः च अग्निः च) प्रबल वायु और अग्नि मिल कर (वनस्पतीन् वृक्षान्) वन के बड़े बड़े और साधारण वृक्षों को भी (प्सातः) खा जाते हैं (एवा) इसी प्रकार (मे) मेरे (पूर्वान् जातान् उत अपरान् जातान् सपत्नान् प्साहि) पहले और पिछले उत्पन्न शत्रुओं को खा डाल। हे राजन् ! (वरणः त्वा अभि रक्षतु) शत्रुवारक पुरुष तेरी रक्षा करे।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top