अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 15
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - षट्पदा जगती
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॒ वाते॑न॒ प्रक्षी॑णा वृ॒क्षाः शेरे॒ न्यर्पिताः। ए॒वा स॒पत्नां॒स्त्वं मम॒ प्र क्षि॑णीहि॒ न्यर्पय। पूर्वा॑ञ्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ॥
स्वर सहित पद पाठयथा॑ । वाते॑न । प्रऽक्षी॑णा: । वृ॒क्षा: । शेरे॑ । निऽअ॑र्पिता: । ए॒व । स॒ऽपत्ना॑न् । त्वम् । मम॑ । प्र । क्षि॒णी॒हि॒ । नि । अ॒र्प॒य॒ । पूर्वा॑न् । जा॒तान् । उ॒त । अप॑रान् । व॒र॒ण: । त्वा॒ । अ॒भि । र॒क्ष॒तु॒ ॥३.१५॥
स्वर रहित मन्त्र
यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः। एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय। पूर्वाञ्जाताँ उतापरान्वरणस्त्वाभि रक्षतु ॥
स्वर रहित पद पाठयथा । वातेन । प्रऽक्षीणा: । वृक्षा: । शेरे । निऽअर्पिता: । एव । सऽपत्नान् । त्वम् । मम । प्र । क्षिणीहि । नि । अर्पय । पूर्वान् । जातान् । उत । अपरान् । वरण: । त्वा । अभि । रक्षतु ॥३.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 15
विषय - वीर राजा और सेनापति का वर्णन।
भावार्थ -
(यथा) जिस प्रकार (वातेन) प्रबल वायु से (प्रक्षीणाः) उखाड़े और (नि अर्पिताः) नीचे गिराये वृक्ष भूमि पर लोट जाते हैं। (एवा) उसी प्रकार (त्वं) तू ‘वरण’ (मे सपत्नान् प्रक्षिणीहि) मेरे शत्रुओं का विनाश कर और (नि अर्पय) नीचे गिरा (पूर्वान् जातान् ० इत्यादि) पूर्ववत्।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥
इस भाष्य को एडिट करें