Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 17
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - षट्पदा जगती सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न्तेज॒ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥

    स्वर सहित पद पाठ

    यथा॑ । सूर्य॑: । अ॒ति॒ऽभाति॑ । यथा॑ । अ॒स्मि॒न् । तेज॑: । आऽहि॑तम् । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम्‌ । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.१७॥


    स्वर रहित मन्त्र

    यथा सूर्यो अतिभाति यथास्मिन्तेज आहितम्। एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु। तेजसा मा समुक्षतु यशसा समनक्तु मा ॥

    स्वर रहित पद पाठ

    यथा । सूर्य: । अतिऽभाति । यथा । अस्मिन् । तेज: । आऽहितम् । एव । मे । वरण: । मणि: । कीर्तिम्‌ । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 17

    भावार्थ -
    (यथा) जिस प्रकार (सूर्यः) सूर्य (अति-भाति) सबसे अधिक चमकता है और (यथा) जिस प्रकार (अस्मिन्) इस सूर्य में (तेजः) प्रखर तेज (आहितम्) ईश्वर ने रख दिया है (एवा) उसी प्रकार (चरणः मणिः) शत्रुवारक नर-शिरोमणि पुरुष (मे) मुझे (कीर्त्तिम्) यश और (भूतिम्) सम्पत्ति (नि यच्छतु) प्रदान करे। (तेजसा) तेज से (मा) मुझे (सम् उक्षतु) पूर्ण करे। अर्थात् शत्रुरक्षक पुरुषों के बल पर मैं सूर्य के समान कान्तिमान्, समृद्धिमान्, यशस्वी, तेजस्वी राजा हो जाऊं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top