अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 20
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॒ यशः॑ क॒न्यायां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
स्वर सहित पद पाठयथा॑ । यश॑: । क॒न्या᳡याम् । यथा॑ । अ॒स्मिन् । सम्ऽभृ॑ते । रथे॑ । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम् । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.२०॥
स्वर रहित मन्त्र
यथा यशः कन्यायां यथास्मिन्त्संभृते रथे। एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु। तेजसा मा समुक्षतु यशसा समनक्तु मा ॥
स्वर रहित पद पाठयथा । यश: । कन्यायाम् । यथा । अस्मिन् । सम्ऽभृते । रथे । एव । मे । वरण: । मणि: । कीर्तिम् । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 20
विषय - वीर राजा और सेनापति का वर्णन।
भावार्थ -
(यथा) जिस प्रकार का (कन्यायां) शुद्धचरित्रा कन्या में और (यथा) जिस प्रकार का (अस्मिन्) इस (सं भृते) युद्ध के लिये युद्ध-सामग्री से सुसज्जित (रथे) रथ में (यशः) यश है (एवा मे वरणः० इत्यादि) पूर्ववत्।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥
इस भाष्य को एडिट करें