अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 17
स॑हस्रा॒क्षम॑तिप॒श्यं पु॒रस्ता॑द्रु॒द्रमस्य॑न्तं बहु॒धा वि॑प॒श्चित॑म्। मोपा॑राम जि॒ह्वयेय॑मानम् ॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽअ॒क्षम् । अ॒ति॒ऽप॒श्यम् । पु॒रस्ता॑त् । रु॒द्रम् । अस्य॑न्तम् । ब॒हु॒ऽधा । वि॒प॒:ऽचित॑म् । मा । उप॑ । अ॒रा॒म॒ । जि॒ह्वया॑ । ईय॑मानम् ॥२.१७॥
स्वर रहित मन्त्र
सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम्। मोपाराम जिह्वयेयमानम् ॥
स्वर रहित पद पाठसहस्रऽअक्षम् । अतिऽपश्यम् । पुरस्तात् । रुद्रम् । अस्यन्तम् । बहुऽधा । विप:ऽचितम् । मा । उप । अराम । जिह्वया । ईयमानम् ॥२.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 17
विषय - रुद्र ईश्वर के भव और शर्व रूपों का वर्णन।
भावार्थ -
मैं साक्षाद् द्रष्टा (पुरस्तात्) अपने समक्ष (सहस्राक्षम् रुद्रम्) सहस्रों आंखों से सम्पन्न अति भयंकर दुष्टों को रुलाने हारे काल रूप (विपश्चितम्) समस्त कार्यों और ज्ञानों को जानने हारे (बहुधा अस्यन्तम्) प्रभु को नाना प्रकार से अपने बाण प्रहार करते हुए (अतिपश्यम्) अति क्रान्तदर्शनी दृष्टि से देख रहा हूं। (जिह्वया ईयमानं) अपनी काल जिह्वा से सर्वत्र व्यापक उसको हम (मा उपाराम) प्राप्त न हों। हम उस काल के ग्रास न हो।
टिप्पणी -
‘सहस्राक्षम्’—क्षहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। यजु०।
‘जिह्वया ईयमानम्’—पश्यामि त्वां दुर्निरीच्यं समन्तात् दीप्तानलार्कद्युतिमप्रमेयम्। (गी० ११। १७) पश्यामि त्वां दीप्तहुताशवकं स्वतेजसा विश्वमिदं तपन्तम्। ११। २०॥ लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥ ११। ३०॥
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। १ परातिजागता विराड् जगती, २ अनुष्टुब्गर्भा पञ्चपदा जगती चतुष्पात्स्वराडुष्णिक्, ४, ५, ७ अनुष्टुभः, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरः कृतिस्त्रिपदा विराट्, ११ पञ्चपदा विराड् जगतीगर्भा शक्करी, १२ भुरिक्, १३, १५, १६ अनुष्टुभौ, १४, १७–१९, २६, २७ तिस्त्रो विराड् गायत्र्यः, २० भुरिग्गायत्री, २१ अनुष्टुप्, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २९, २४ जगत्यौ, २५ पञ्चपदा अतिशक्वरी, ३० चतुष्पादुष्णिक् ३१ त्र्यवसाना विपरीतपादलक्ष्मा षट्पदाजगती, ३, १६, २३, २८ इति त्रिष्टुभः। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें