अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 9
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - आर्षी त्रिष्टुप्
सूक्तम् - रुद्र सूक्त
च॒तुर्नमो॑ अष्ट॒कृत्वो॑ भ॒वाय॒ दश॒ कृत्वः॑ पशुपते॒ नम॑स्ते। तवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वाः॒ पुरु॑षा अजा॒वयः॑ ॥
स्वर सहित पद पाठच॒तु: । नम॑: । अ॒ष्ट॒ऽकृत्व॑: । भ॒वाय॑ । दश॑ । कृत्व॑: । प॒शु॒ऽप॒ते॒ । नम॑: । ते॒ । तव॑ । इ॒मे । पञ्च॑ । प॒शव॑: । विऽभ॑क्ता: । गाव॑: । अश्वा॑: । पुरु॑षा । अ॒ज॒ऽअ॒वय॑: ॥२.९॥
स्वर रहित मन्त्र
चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते। तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥
स्वर रहित पद पाठचतु: । नम: । अष्टऽकृत्व: । भवाय । दश । कृत्व: । पशुऽपते । नम: । ते । तव । इमे । पञ्च । पशव: । विऽभक्ता: । गाव: । अश्वा: । पुरुषा । अजऽअवय: ॥२.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 9
विषय - रुद्र ईश्वर के भव और शर्व रूपों का वर्णन।
भावार्थ -
हे (पशुपते) जीव संसार के स्वामिन् ! (भवाय) संसार के उत्पत्ति स्थान रूप आपको (चतुः) चारवार (अष्टकृत्वः* दशकृत्वः) आठबार और दशबार (नमः) नमस्कार हो। (तव इमे पञ्च पशवः विभक्ताः) तेर ही विभाग किये हुए ये पांच जीव हैं। (१) (गावः) गौएं (२) (अश्वाः) घोड़े (३) (पुरुषाः) पुरुष और (अजावयः) (४) बकरी (५) और भेड़े।
नमो नमस्तेऽस्तु सहस्त्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते। गी० ११। ३९॥
टिप्पणी -
* ‘दश। कृत्वः’ इति पदच्छेदो ह्विटनिकामितः।
(च०) ‘गावोऽश्वाः पुरुषाणुजावयः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। १ परातिजागता विराड् जगती, २ अनुष्टुब्गर्भा पञ्चपदा जगती चतुष्पात्स्वराडुष्णिक्, ४, ५, ७ अनुष्टुभः, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरः कृतिस्त्रिपदा विराट्, ११ पञ्चपदा विराड् जगतीगर्भा शक्करी, १२ भुरिक्, १३, १५, १६ अनुष्टुभौ, १४, १७–१९, २६, २७ तिस्त्रो विराड् गायत्र्यः, २० भुरिग्गायत्री, २१ अनुष्टुप्, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २९, २४ जगत्यौ, २५ पञ्चपदा अतिशक्वरी, ३० चतुष्पादुष्णिक् ३१ त्र्यवसाना विपरीतपादलक्ष्मा षट्पदाजगती, ३, १६, २३, २८ इति त्रिष्टुभः। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें