अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
वाता॑त्ते प्रा॒णम॑विदं॒ सूर्या॒च्चक्षु॑र॒हं तव॑। यत्ते॒ मन॒स्त्वयि॒ तद्धा॑रयामि॒ सं वि॒त्स्वाङ्गै॒र्वद॑ जि॒ह्वयाल॑पन् ॥
स्वर सहित पद पाठवाता॑त् । ते॒ । प्रा॒णम् । अ॒वि॒द॒म् । सूर्या॑त् । चक्षु॑: । अ॒हम् । तव॑ । यत् । ते । मन॑: । त्वयि॑ । तत् । धा॒र॒या॒मि॒ । सम् । वि॒त्स्व॒ । अङ्गै॑: । वद॑ । जि॒ह्वया॑ । अल॑पन् ॥२.३॥
स्वर रहित मन्त्र
वातात्ते प्राणमविदं सूर्याच्चक्षुरहं तव। यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥
स्वर रहित पद पाठवातात् । ते । प्राणम् । अविदम् । सूर्यात् । चक्षु: । अहम् । तव । यत् । ते । मन: । त्वयि । तत् । धारयामि । सम् । वित्स्व । अङ्गै: । वद । जिह्वया । अलपन् ॥२.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 3
विषय - दीर्घ जीवन का उपदेश।
भावार्थ -
(ते) तेरे लिये (प्राणम्) प्राण को हे पुरुष ! मैं (वातात्) इस वायु से (अविदम्) उत्पन्न करता हूं। और (अहम्) मैं प्रजापति (तव) तेरी (चक्षुः) दर्शनशक्ति को (सूर्यात्) सूर्य से उत्पन्न करता हूं। और (यत्) जरे (ते) तेरे (मनः) संकल्पकारी अन्तःकरण है उसको (त्वयि) तेरे भीतर (धारयामि) स्थापित करता हूँ। (अंगैः) अपने सब अंगों, इन्द्रियों या ज्ञानेन्द्रियों से (संवित्स्व) भली प्रकार ज्ञान कर और (जिह्वया) जीभ या वाणी से (आलपन्) स्पष्ट वाणी का उच्चारण करता हुआ (वद) बोल।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥
इस भाष्य को एडिट करें