अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। त्रा॑यमा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठजी॒व॒लाम् । न॒घ॒ऽरि॒षाम् । जी॒व॒न्तीम् । ओष॑धीम् । अ॒हम् । त्रा॒य॒मा॒णाम् । सह॑मानाम् । सह॑स्वतीम् । इ॒ह । हु॒वे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥२.६॥
स्वर रहित मन्त्र
जीवलां नघारिषां जीवन्तीमोषधीमहम्। त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥
स्वर रहित पद पाठजीवलाम् । नघऽरिषाम् । जीवन्तीम् । ओषधीम् । अहम् । त्रायमाणाम् । सहमानाम् । सहस्वतीम् । इह । हुवे । अस्मै । अरिष्टऽतातये ॥२.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 6
विषय - दीर्घ जीवन का उपदेश।
भावार्थ -
(अहम्) मैं परमेश्वर (अस्मै) इस पुरुष के लिये (जीवलाम्) जीवनप्रद, प्राणपद (नघारिषाम्) कभी प्राण पर आघात न करने वाली (जीवन्तीम्) जीवन्ती नामक ओषधि को, (त्रायमाणाम्) त्रायमाणा नामक ओषधि को और (सहस्वतीम्) सब रोगों के आक्रमणों को दबाने वाली (सहमानाम्) बलवती, रोगनाशक पापनाशक ओषधि या सहदेवी ओषधि को (अरिष्टतातये) नीरोग होने के लिये (हुवे) जीवों को प्रदान करता हूँ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥
इस भाष्य को एडिट करें