अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 12
ई॑जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न्पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। स व्याप्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॒ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ॥
स्वर सहित पद पाठई॒जा॒नाना॑म् । सु॒ऽकृता॑म् । लो॒कम् । ईप्स॑न् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । स: । विऽआ॒प्तिम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् । शि॒व: । अ॒स्मभ्य॑म् । प्रति॑ऽगृहीत:। अ॒स्तु॒ ॥५.१२॥
स्वर रहित मन्त्र
ईजानानां सुकृतां लोकमीप्सन्पञ्चौदनं ब्रह्मणेऽजं ददाति। स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥
स्वर रहित पद पाठईजानानाम् । सुऽकृताम् । लोकम् । ईप्सन् । पञ्चऽओदनम् । ब्रह्मणे । अजम् । ददाति । स: । विऽआप्तिम् । अभि । लोकम् । जय । एतम् । शिव: । अस्मभ्यम् । प्रतिऽगृहीत:। अस्तु ॥५.१२॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 12
विषय - अज के दृष्टान्त से पञ्चौदन आत्मा का वर्णन।
भावार्थ -
जो पुरुष (ईजानानाम्) अध्यात्म यज्ञशील (सुकृताम्) शुभ कर्मकारी पुण्यात्माओं के (लोकम् ईप्सन्) लोक को प्राप्त करने की इच्छा करता हुआ अपने (पञ्चौदनं अजम्) पञ्चौदन अज, आत्मा को (ब्रह्मणे) ब्रह्म परमात्मा में (ददाति) समर्पित कर देता है (सः) वह (एतम्) उस (लोकम्) लोक को (व्याप्तिम्) व्याप्त करके (अभिजय) साक्षात् करले। वह (प्रतिगृहीतः) ब्रह्मद्वारा स्वीकृत होकर स्वभाव को प्राप्त होकर भी (असभ्यम्) हम जैसे सामान्य लोगों के लिये (शिवः अस्तु) कल्याणकारी हो जाता है।
भक्त्या माम् अभिजानाति यावान् यश्चास्मि तत्त्वतः।
ततो मां यत्नतो ज्ञात्वा विशते तदनन्तरम्॥ गीता २८। ३५॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अजः पञ्चोदनो देवता। १, २, ५, ९, १२, १३, १५, १९, २५, त्रिष्टुभः, ३ चतुष्पात् पुरोऽति शक्वरी जगती, ४, १० नगत्यौ, १४, १७,२७, ३०, अनुष्टुभः ३० ककुम्मती, २३ पुर उष्णिक्, १६ त्रिपाद अनुष्टुप्, १८,३७ त्रिपाद विराड् गायत्री, २४ पञ्चपदाऽनुपटुबुष्णिग्गर्भोपरिष्टाद्बर्हता विराड् जगती २०-२२,२६ पञ्चपदाउष्णिग् गर्भोपरिष्टाद्बर्हता भुरिजः, ३१ सप्तपदा अष्टिः, ३३-३५ दशपदाः प्रकृतयः, ३६ दशपदा प्रकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप, अष्टात्रिंशदर्चं सूक्तम्॥
इस भाष्य को एडिट करें