अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 22
यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्। अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा ॥
स्वर सहित पद पाठयत् । अ॒न्ये । श॒तम् । याचे॑यु: । ब्रा॒ह्म॒णा: । गोऽप॑तिम् । व॒शाम् । अथ॑ । ए॒ना॒म् । दे॒वा: । अ॒ब्रु॒व॒न् । ए॒वम् । ह॒ । वि॒दुष॑: । व॒शा॥४.२२॥
स्वर रहित मन्त्र
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम्। अथैनां देवा अब्रुवन्नेवं ह विदुषो वशा ॥
स्वर रहित पद पाठयत् । अन्ये । शतम् । याचेयु: । ब्राह्मणा: । गोऽपतिम् । वशाम् । अथ । एनाम् । देवा: । अब्रुवन् । एवम् । ह । विदुष: । वशा॥४.२२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 22
Translation -
If hundred others beg the cow from her master, she, the learned say, belongs only to him who is enlightened and intelligent.