Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 70
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प्रास्मत्पाशा॑न्वरुण मुञ्च॒ सर्वा॒न्यैः स॑मा॒मे ब॒ध्यते॒ यैर्व्या॒मे। अधा॑जीवेम श॒रदं॑ शतानि॒ त्वया॑ राजन्गुपि॒ता रक्ष॑माणाः ॥
स्वर सहित पद पाठप्र । अ॒स्मत् । पाशा॑न् । व॒रु॒ण॒ । मु॒ञ्च॒ । सर्वा॑न् । यै: । स॒म्ऽआ॒मे । ब॒ध्यते॑ । यै: । वि॒ऽआ॒मे । अध॑ । जी॒वे॒म॒ । श॒रद॑म् । श॒तानि॑ । त्वया॑ । रा॒ज॒न् । गु॒पि॒ता: । रक्ष॑माणा: ॥४.७०॥
स्वर रहित मन्त्र
प्रास्मत्पाशान्वरुण मुञ्च सर्वान्यैः समामे बध्यते यैर्व्यामे। अधाजीवेम शरदं शतानि त्वया राजन्गुपिता रक्षमाणाः ॥
स्वर रहित पद पाठप्र । अस्मत् । पाशान् । वरुण । मुञ्च । सर्वान् । यै: । सम्ऽआमे । बध्यते । यै: । विऽआमे । अध । जीवेम । शरदम् । शतानि । त्वया । राजन् । गुपिता: । रक्षमाणा: ॥४.७०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 70
Translation -
O Varuna, (All-worshipped Divinity) please set us free from all those bonds with which a Jiva is bound at length and cross-wise. O All ruling God, we protected and preserved by you live a hundred autumns.