अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 17
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - षट्पदा जगती
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न्तेज॒ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
स्वर सहित पद पाठयथा॑ । सूर्य॑: । अ॒ति॒ऽभाति॑ । यथा॑ । अ॒स्मि॒न् । तेज॑: । आऽहि॑तम् । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम् । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.१७॥
स्वर रहित मन्त्र
यथा सूर्यो अतिभाति यथास्मिन्तेज आहितम्। एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु। तेजसा मा समुक्षतु यशसा समनक्तु मा ॥
स्वर रहित पद पाठयथा । सूर्य: । अतिऽभाति । यथा । अस्मिन् । तेज: । आऽहितम् । एव । मे । वरण: । मणि: । कीर्तिम् । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 17
भाषार्थ -
(यथा) जैसे (सूर्यः अतिभाति) सूर्य खूब चमकता तथा दूर-दूर तक चमकता है, (यथा) जैसे (अस्मिन्) इस सूर्य में (तेजः) तेज (आहितम्) स्थित है। (एवा) इसी प्रकार (वरणः मणिः) श्रेष्ठ तथा शत्रुनिवारक सेनाध्यक्षरूपी राज्यरत्न (मे) मुझ [राजा] में (कीर्तिम्) कीर्ति को और (भूतिम्) वैभव को (नियच्छतु) नियत करे, स्थापित करे, (तेजसा) तेज से (मा) मुझे (समुक्षतु) सम्यक्-सींचें, (यशसा) यश से (मा) मुझे (समनक्तु) सम्यक्-कान्तिमान् करे।
टिप्पणी -
[समुक्षतु = सम् + उक्ष (सेचने, भ्वादि)। समनक्तु = सम् + अञ्जू कान्तौ (रुधादिः)]।