अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 36
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यः श्रमा॒त्तप॑सो जा॒तो लो॒कान्त्सर्वा॑न्त्समान॒शे। सोमं॒ यश्च॒क्रे केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
स्वर सहित पद पाठय: । श्रमा॑त् । तप॑स: । जा॒त: । लो॒कान् । सर्वा॑न् । स॒म्ऽआ॒न॒शे । सोम॑म् । य: । च॒क्रे । केव॑लम् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३६॥
स्वर रहित मन्त्र
यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे। सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
स्वर रहित पद पाठय: । श्रमात् । तपस: । जात: । लोकान् । सर्वान् । सम्ऽआनशे । सोमम् । य: । चक्रे । केवलम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३६॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 36
भाषार्थ -
(यः) जो (श्रमात्) परिश्रम से, (तपसः) और तपोमय जीवन से (जातः) प्रकट होता है, [जो] (सर्वान् लोकान्) सब लोकों में (समानशे) सम्यक्-व्याप्त है। (यः) जिसने (सोमम्) चन्द्रमा को (केवलम्) सेवनीय (चक्रे) किया है, रचा है (तस्मै) उस (ज्येष्ठाय ब्रह्मणे) सर्वश्रेष्ठ ब्रह्म के लिये (नमः) नमस्कार हो।
टिप्पणी -
[केवलम् = केवृ सेवने (भ्वादिः)]।