अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 10
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
अथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑। पौरु॑षे॒येऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठअथो॒ इति॑ । सर्व॑म् । श्वाप॑दम् । मक्षि॑का । तृ॒प्य॒तु॒ । क्रिमि॑: । पौरु॑षेये । अधि॑ । कुण॑पे । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१०॥
स्वर रहित मन्त्र
अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः। पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥
स्वर रहित पद पाठअथो इति । सर्वम् । श्वापदम् । मक्षिका । तृप्यतु । क्रिमि: । पौरुषेये । अधि । कुणपे । रदिते । अर्बुदे । तव ॥११.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 10
भाषार्थ -
(अथ उ) तथा (श्वापदम्) कुत्तों के सदृश पैरोंवाले (सर्वम्) सब हिंस्रप्राणी, (मक्षिका) मक्खियां, (क्रिमिः) और कीड़े मकौड़े, (पौरुषेये कुणपे अधि) पुरुषों के मृतशरीरों पर (तृप्यतु) तृप्त हों, (अर्बुदे) हे हिंसक, सेनापति! (तव) तुझ द्वारा (रदिते) शत्रुओं के कटने पर।