अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 14
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
न वा उ॑ ते त॒नूंत॒न्वा॒ सं पि॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त्। असं॑यदे॒तन्मन॑सोहृ॒दो मे॒ भ्राता॒ स्वसुः॒ शय॑ने॒ यच्छयी॑य ॥
स्वर सहित पद पाठन । वै । ऊं॒ इति॑ । ते॒ । त॒नूम् । त॒न्वा᳡ । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हु॒: । य: । स्वसा॑रम् । नि॒ऽगच्छा॑त् । अस॑म्ऽयत् । ए॒तत् । मन॑स: । हृ॒द: । मे॒ । भ्राता॑ । स्वसु॑: । शय॑ने । यत् । श॒यी॒य॒ ॥१.१४॥
स्वर रहित मन्त्र
न वा उ ते तनूंतन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्। असंयदेतन्मनसोहृदो मे भ्राता स्वसुः शयने यच्छयीय ॥
स्वर रहित पद पाठन । वै । ऊं इति । ते । तनूम् । तन्वा । सम् । पपृच्याम् । पापम् । आहु: । य: । स्वसारम् । निऽगच्छात् । असम्ऽयत् । एतत् । मनस: । हृद: । मे । भ्राता । स्वसु: । शयने । यत् । शयीय ॥१.१४॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 14
विषय - भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।
पदार्थ -
(वै उ) कभी भी (तेतनूम्) तेरे शरीर को (तन्वा) [अपने] शरीर से (न) नहीं (सम्) मिलकर (पपृच्याम्)छूऊँगा, [उस मनुष्य को] (पापम्) पापी (आहुः) वे [शिष्ट लोग] कहते हैं, (यः) जो (स्वसारम्) बहिन को (निगच्छात्) नीचपन से प्राप्त करे। (एतत्) यह [बात] (मे)मेरे (मनसः) मन [संकल्प] के और (हृदः) हृदय [निश्चय] के (असंयत्) असंगत है−(यत्)कि (भ्राता) मैं भाई (स्वसुः) बहिन की (शयने) सेज पर (शयीय) सोऊँ ॥१४॥
भावार्थ - यह भी पुरुष का वचनहै। मैं कभी भी तेरे साथ विवाह न करूँगा। बड़े लोग भाई के साथ बहिन का विवाह पापमानते हैं और मैं भी अन्तःकरण से इसे पाप समझता हूँ ॥१४॥इस मन्त्र कापूर्वार्द्ध ऋग्वेद में है−१०।१०।१२ ॥
टिप्पणी -
१४−(न) निषेधे (वै उ) कदापि (ते) तव (तनूम्) शरीरम् (तन्वा) स्वशरीरेण (सम्) संगत्य (पपृच्याम्) संपर्चयाम् (पापम्)पापिनं तं पुरुषम् (आहुः) कथयन्ति शिष्टाः (यः) भ्राता (स्वसारम्) भगिनीम् (निगच्छात्) नीचं प्राप्नुयात् (असंयत्) यमु उपरमे-क्विप्। असंगतम् (एतत्) इदंकर्म (मनसः) चित्तस्य। संकल्पस्य (हृदः) हृदयस्य। निश्चयस्य (मे) मम (भ्राता) (स्वसुः) भगिन्याः (शयने) शय्यायाम् (यत्) अर्थबोधने (शयीय) अहं शयनं कुर्याम् ॥