अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 6
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
को अ॒द्ययु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून्।आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
स्वर सहित पद पाठक: । अ॒द्य । युङ्क्ते॒ । धु॒रि । गा: । ऋ॒तस्य॑ । शिमी॑ऽवत: । भा॒मिन॑: । दु॒:ऽहृ॒णा॒यून् । आ॒सन्ऽइ॑षून् । हृ॒त्सु॒ऽअस॑: । म॒य॒:ऽभून् । य: । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । स: । जी॒वा॒त् ॥१.६॥
स्वर रहित मन्त्र
को अद्ययुङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून्।आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥
स्वर रहित पद पाठक: । अद्य । युङ्क्ते । धुरि । गा: । ऋतस्य । शिमीऽवत: । भामिन: । दु:ऽहृणायून् । आसन्ऽइषून् । हृत्सुऽअस: । मय:ऽभून् । य: । एषाम् । भृत्याम् । ऋणधत् । स: । जीवात् ॥१.६॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 6
विषय - भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।
पदार्थ -
(कः) कर्ता [प्रजापति]परमेश्वर (अद्य) आज (ऋतस्य) सत्य के (गाः) गानेवाले, (शिमीवतः) उत्तम कर्मवाले, (भामिनः) तेजस्वी (दुर्हृणायून्) [शत्रुओं पर] भारी क्रोधवाले, (आसन्निषून्) ठीकस्थान पर बाण पहुँचानेवाले, (हृत्स्वसः) [शत्रुओं के] हृदयों में शस्त्र मारनेवालेऔर (मयोभून्) [धर्मात्माओं को] सुख देनेवाले वीरों को (धुरि) धुरी [भारी बोझ]में (युङ्क्ते) जोड़ता है, (यः) जो पुरुष (एषाम्) इन [वीरों] की (भृत्याम्) पोषणरीति को (ऋणधत्) बढ़ावेगा, (सः) वह (जीवात्) जीवेगा ॥६॥
भावार्थ - पुरुष का वचन है।परमात्मा धुरन्धर धर्मात्मा वीरों पर संसार की रक्षा का भार रखता है, और वे उसनियम का यथावत् पालन करते हैं। जो मनुष्य ऐसे मर्यादा पुरुषों की नीति पर चलताहै, वह संसार में यशस्वी होकर अमर होता है ॥६॥यह मन्त्र ऋग्वेद में है, १।८४।६।महर्षि दयानन्द ने सेनापति के योग्य कर्म में इसकी व्याख्या की है ॥
टिप्पणी -
६−(कः)करोतेर्डप्रत्ययः। कर्ता। प्रजापतिः परमेश्वरः (अद्य) अस्मिन् दिने (युङ्क्ते)योजयति (धुरि) भारे (गाः) गौः स्तोतृनाम-निघ० ३।१६। गायकान् (शिमीवतः) शिमीकर्मनाम-निघ० २।१। उत्तमकर्मयुक्तान् (भामिनः) भाम-इनि। तेजस्विनः (दुर्हृणायून्) हृणीयतेः क्रुध्यतिकर्मा-निघ० २।१२। हृणीङ् रोषणे लज्जायांच-उण्, कण्ड्वादित्वाद् यक्, अतो लोपे सति ईकारस्य आकारः। शत्रुषुमहाक्रोधयुक्तान् (आसन्निषून्) पद्दन्नोमास्०। पा० ६।१।६३। आसनशब्दस्य आसन्आदेशः। आसने लक्ष्ये प्राप्तबाणान् (हृत्स्वसः) अस्यतेः-क्विप्। शत्रुहृदयेषुप्रक्षिप्तशस्त्रान् (मयोभून्) सुखं भावुकान् वीरान् (यः) पुरुषः (एषाम्)वीराणाम् (भृत्याम्) पोषणरीतिम् (ऋणधत्) ऋधु वृद्धौ-लेटि अडागमः। वर्धयेत् (सः) (जीवात्) लेटि आडागमः। चिरं जीवेत्। यशस्वी भवेत् ॥