अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 21
अध॒ त्यंद्र॒प्सं वि॒भ्वं विचक्ष॒णं विराभ॑रदिषि॒रः श्ये॒नो अ॑ध्व॒रे। यदी॒ विशो॑वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥
स्वर सहित पद पाठअध॑ । त्यम् । द्र॒प्सम् । वि॒ऽभ्व᳡म् । वि॒ऽच॒क्ष॒णम् । वि: । आ । अ॒भ॒र॒त् । इ॒षि॒र: । श्ये॒न: । अ॒ध्व॒रे । यदि॑ । विश॑: । वृ॒णते॑ । द॒स्मम् । आर्या॑: । अ॒ग्निम् । होता॑रम् । अध॑ । धी: । अ॒जा॒य॒त॒ ॥१.२१॥
स्वर रहित मन्त्र
अध त्यंद्रप्सं विभ्वं विचक्षणं विराभरदिषिरः श्येनो अध्वरे। यदी विशोवृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥
स्वर रहित पद पाठअध । त्यम् । द्रप्सम् । विऽभ्वम् । विऽचक्षणम् । वि: । आ । अभरत् । इषिर: । श्येन: । अध्वरे । यदि । विश: । वृणते । दस्मम् । आर्या: । अग्निम् । होतारम् । अध । धी: । अजायत ॥१.२१॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 21
विषय - विद्वानों के कर्त्तव्य का उपदेश।
पदार्थ -
(अध) और (त्यम्) उस (द्रप्सम्) हर्ष देनेवाले, (विभ्वम्) बली (विचक्षणम्) चतुर [विद्वान्] पुरुष को (श्येनः) श्येन [वाज] (विः) पक्षी [के समान] (इषिरः) फुरतीला [आचार्य आदि] (अध्वरे) यज्ञ में (आ अभरत्) लाया है। (यदि) यदि (आर्याः) आर्य [श्रेष्ठ] (विशः)मनुष्य (दस्मम्) दर्शनीय, (होतारम्) दानी (अग्निम्) विद्वान् पुरुष को (वृणते)चुने, (अध) तब (धीः) वह कर्म (अजायत) हो जावे ॥२१॥
भावार्थ - जिस विद्वान् दूरदर्शीजन को उत्तम गुणों के कारण विद्वान् आचार्य आदि प्रसिद्ध करें, उसको श्रेष्ठ लोगप्रधान बनाकर कार्य सिद्ध करें ॥२१॥
टिप्पणी -
२१−(अध) अथ (त्यम्) तम् (द्रप्सम्)वृतॄवदिवचि०। उ० ३।६२। दृप हर्षमोहनयोः-स प्रत्ययः। हर्षकारिणम् (विभ्वम्)विभुम्। प्रभुम्। (विचक्षणम्) दूरदर्शिनम्। चतुरम् (विः) वातेर्डिच्च। उ० ४।१३४।वा गतिगन्धनयोः-इण्, डित्। पक्षी (आ अभरत्) हस्य भः। आहरत्। आहृतवान् (इषिरः)इषिमदिमुदि०। उ० १।५१। इष गतौ-किरच्। शीघ्रगामी (श्येनः) श्येन इव (अध्वरे)यज्ञे (यदि) (विशः) मनुष्याः-निघ० २।३। (वृणते) वरणं कुर्वन्ति। पुरस्कुर्वन्ति (दस्मम्) दर्शनीयम् (आर्याः) ऋ गतिप्रापणयोः-ण्यत्। श्रेष्ठाः (अग्निम्)विद्वांसम् (होतारम्) दातारम् (अध) अनन्तरम् (धीः) कर्म-निघ० २।१। (अजायत) जायते॥