अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 44
उदी॑रता॒मव॑र॒उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑। असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्तेनो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥
स्वर सहित पद पाठउत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑स: । उत् । म॒ध्य॒मा: । पि॒तर॑: । सो॒म्यास॑: । असु॑म् । ये । ई॒यु: । अ॒वृ॒का: । ऋ॒त॒ऽज्ञा: । ते । न॒: । अ॒व॒न्तु॒ । पि॒तर॑: । हवे॑षु ॥१.४४॥
स्वर रहित मन्त्र
उदीरतामवरउत्परास उन्मध्यमाः पितरः सोम्यासः। असुं य ईयुरवृका ऋतज्ञास्तेनोऽवन्तु पितरो हवेषु ॥
स्वर रहित पद पाठउत् । ईरताम् । अवरे । उत् । परास: । उत् । मध्यमा: । पितर: । सोम्यास: । असुम् । ये । ईयु: । अवृका: । ऋतऽज्ञा: । ते । न: । अवन्तु । पितर: । हवेषु ॥१.४४॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 44
विषय - पितरों के सत्कार का उपदेश।
पदार्थ -
(अवरे) छोटे पदवाले (सोम्यासः) ऐश्वर्य के हितकारी, (पितरः) पितर [पालन करनेवाले विद्वान्] (उत्)उत्तमता से, (परासः) ऊँचे पदवाले (उत्) उत्तमता से और (मध्यमाः) मध्य पदवाले (उत्) उत्तमता से (ईरताम्) चलें। (ये) जिन (अवृकाः) भेड़िये वा चोर का स्वभाव नरखनेवाले, (ऋतज्ञाः) सत्य धर्म जाननेवाले [विद्वानों] ने (असुम्) प्राण [बल वाजीवन] (ईयुः) पाया है (ते) वे (पितरः) पितर [पालन करनेवाले] लोग (नः) हमें (हवेषु) संग्रामों में (अवन्तु) बचावें ॥४४॥
भावार्थ - प्रधान पुरुष कोचाहिये कि विद्या, कर्म और स्वभाव की योग्यता के अनुसार विद्वानों का सत्कारकरे, जिससे वे लोग सबकी रक्षा करने में सदा तत्पर रहें ॥४४॥मन्त्र ४४-४६ कुछभेद से ऋग्वेद में हैं−१०।१५।१, ३, २ और यजुर्वेद में १९।४९, ५६, ६८ और महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पितृयज्ञविषय में भी व्याख्यात हैं॥
टिप्पणी -
४४−(उत्) उत्तमतया (ईरताम्) गच्छन्तु (अवरे) नीचपदस्थाः (उत्) (परासः)उच्चपदस्थाः (उत्) (मध्यमाः) मध्यपदस्थाः (पितरः) पालनशीला विद्वांसः (सोम्यासः)सोमायैश्वर्याय हिताः (असुम्) प्राणम्। बलम्। जीवनम् (ईयुः) प्रापुः (अवृकाः)वृकस्य श्वापदस्य चौरस्य वा स्वभावरहिताः (ऋतज्ञाः) सत्यधर्मस्य ज्ञातारः (ते) (नः) अस्मान् (अवन्तु) रक्षन्तु (पितरः) (हवेषु) संग्रामेषु ॥