अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 33
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
किं स्वि॑न्नो॒राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द। मि॒त्रश्चि॒द्धि ष्मा॑जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥
स्वर सहित पद पाठकिम् । स्वि॒त् । न॒: । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । क: । वि । वे॒द॒ । मि॒त्र: । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒ण: । दे॒वान् । श्लोक॑: । न । या॒ताम् । अपि॑ । वाज॑: । अस्ति॑ ॥१.३३॥
स्वर रहित मन्त्र
किं स्विन्नोराजा जगृहे कदस्याति व्रतं चकृमा को वि वेद। मित्रश्चिद्धि ष्माजुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥
स्वर रहित पद पाठकिम् । स्वित् । न: । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । क: । वि । वेद । मित्र: । चित् । हि । स्म । जुहुराण: । देवान् । श्लोक: । न । याताम् । अपि । वाज: । अस्ति ॥१.३३॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 33
विषय - परमात्मा के गुणों का उपदेश।
पदार्थ -
(किं स्वित्) क्यों [किस कर्मफल से] (नः) हमें (राजा) राजा [परमेश्वर] ने (जगृहे) ग्रहण किया है [सुख दिया है], (कत्) कब (अस्य) इस [परमात्मा] के (व्रतम्) नियम को (अति चकृम)हमने उल्लङ्घन किया है [जिस से क्लेश पाया है], (कः) प्रजापति परमेश्वर [इस को] (वि) विविध प्रकार (वेद) जानता है। (हि) क्योंकि (मित्रः) सबका मित्र [परमात्मा] (चित्) ही (स्म) अवश्य (देवान्) उन्मत्तो को (जुहुराणः) मरोड़ देनेवाला और (याताम्) गतिशीलों [पुरुषार्थियों] का (अपि) ही (श्लोकः न) स्तुति के समान (वाजः) बल (अस्ति) है ॥३३॥
भावार्थ - पूर्वजन्म के फल कीव्यवस्था को, जो हमारे अकस्मात् सुख-दुःख का कारण है, परमेश्वर जानता है, परन्तुवह अपनी न्यायव्यवस्था से उन्मत्त आलसियों को कष्ट और उद्योगियों को सुख देताहै ॥३३॥मन्त्र ३३-३६ ऋग्वेद में हैं−१०।१२।५-३८ ॥
टिप्पणी -
३३−(किं स्वित्) कस्मात्कर्मफलात् (नः) अस्मान् (राजा) परमेश्वरः (जगृहे) जग्राह। गृहीतवान् (कत्) कदा (अस्य) परमेश्वरस्य (व्रतम्) नियमम् (अति चकृम) वयमतिक्रान्तवन्तः (कः)प्रजापतिः परमेश्वरः (वि) विविधम् (वेद) वेत्ति (मित्रः) सर्वसुहृत् (चित्) एव (हि) यस्मात् कारणात् (स्म) अवश्यम् (जुहुराणः) ह्वृ कौटिल्ये-कानच्।कुटिलीकुर्वाणः (देवान्) दिवु मदे-पचाद्यच्। उन्मत्तान्। अलसान् (श्लोकः)स्तुतिः (न) यथा (याताम्) या गतौ-शतृ। गच्छताम् (अपि) एव (वाजः) बलम् (अस्ति)भवति ॥