अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 47
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
मात॑लीक॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः। यांश्च॑ दे॒वावा॑वृ॒धुर्ये च॑ दे॒वांस्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥
स्वर सहित पद पाठमात॑ली । क॒व्यै । य॒म: । अङ्गि॑र:ऽभि: । बृह॒स्पति॑: । ऋक्व॑ऽभि: । व॒वृ॒धा॒न: । यान् । च॒ । दे॒वा: । व॒वृ॒धु: । ये । च॒ । दे॒वान् । ते । न॒: । अ॒व॒न्तु॒ । पि॒तर॑: । हवे॑षु ॥१.४७॥
स्वर रहित मन्त्र
मातलीकव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः। यांश्च देवावावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥
स्वर रहित पद पाठमातली । कव्यै । यम: । अङ्गिर:ऽभि: । बृहस्पति: । ऋक्वऽभि: । ववृधान: । यान् । च । देवा: । ववृधु: । ये । च । देवान् । ते । न: । अवन्तु । पितर: । हवेषु ॥१.४७॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 47
विषय - पितरों के कर्त्तव्य का उपदेश।
पदार्थ -
(मातली) ऐश्वर्य सिद्धकरनेवाला, (यमः) संयमी और (बृहस्पतिः) बृहस्पति [बड़ी विद्याओं का रक्षक पुरुष] (कव्यैः) बुद्धिमानों के हितकारी (अङ्गिरोभिः) विज्ञानी महर्षियों द्वारा (ऋक्वभिः) बड़ाईवाले कामों से (वावृधानः) बढ़नेवाला होता है। (च) और (यान्) जिन [पितरों] को (देवाः) विद्वानों ने (वावृधुः) बढ़ाया है, (च) और (ये) जिन [पितरों]ने (देवान्) विद्वानों को [बढ़ाया है], (ते) वे (पितरः) पितर [पालन करनेवाले]लोग (नः) हमें (हवेषु) संग्रामों में (अवन्तु) बचावें ॥४७॥
भावार्थ - ऐश्वर्य चाहनेवालाजितेन्द्रिय पुरुष बड़े-बड़े विद्वानों के उपदेश और वेदादि शास्त्रों के मनन सेउन्नति करके संसार की रक्षा करें ॥४७॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१४।३। और ऋग्वेद पाठ महर्षिदयानन्दकृत संस्कारविधि अन्त्येष्टिप्रकरण मेंउद्धृत है ॥
टिप्पणी -
४७−(मातली) अ० ८।९।५। सर्वधातुभ्य इन्। उ० ४।११८। मा+तलप्रतिष्ठायाम्-इन्। विभक्तेः पूर्वसवर्णदीर्घः। मां लक्ष्मीं तालयतिस्थापयतीतीति मातलिः (कव्यैः) कविभ्यो हितैः (यमः) संयमी पुरुषः (अङ्गिरोभिः) अ०२।१२।४। अङ्गतेरसिरिरुडागमश्च। उ० ४।२३६। अगि गतौ-असि, इरुडागमश्च विज्ञानिभिः।महर्षिभिः (बृहस्पतिः) बृहतीनां विद्यानां पालको जनः (ऋक्वभिः) ऋचस्तुतौ-क्विप्। छन्दसीवनिपौ च वक्तव्यौ। वा० पा० ५।२।१०२। मत्वर्थे वनिप्, छान्दसं कुत्वम्। स्तुतिमद्भिः कर्मभिः (ववृधानः) वर्धमानः (यान्) पितॄन् (च) (देवाः) विद्वांसः (ववृधुः) वर्धितवन्तः (ये) पितरः (च) (देवान्) विदुषःपुरुषान्। अन्यत् पूर्ववत्-म० ४४ ॥