अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - जगती
सूक्तम् - आत्मा सूक्त
इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑। अ॒यं य॒ज्ञो विश्व॑स्य॒ भुव॑नस्य॒ नाभि॑र्ब्र॒ह्मायं वा॒चः प॑र॒मं व्योम ॥
स्वर सहित पद पाठइ॒यम् । वेदि॑: । पर॑: । अन्त॑: । पृ॒थि॒व्या: । अ॒यम् । सोम॑: । वृष्ण॑: । अश्व॑स्य । रेत॑: । अ॒यम् । य॒ज्ञ: । विश्व॑स्य । भुव॑नस्य । नाभि॑: । ब्र॒ह्मा । अ॒यम् । वा॒च: । प॒र॒मम् । विऽओ॑म ॥१५.१४॥
स्वर रहित मन्त्र
इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः। अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥
स्वर रहित पद पाठइयम् । वेदि: । पर: । अन्त: । पृथिव्या: । अयम् । सोम: । वृष्ण: । अश्वस्य । रेत: । अयम् । यज्ञ: । विश्वस्य । भुवनस्य । नाभि: । ब्रह्मा । अयम् । वाच: । परमम् । विऽओम ॥१५.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 14
विषय - जीवात्मा और परमात्मा के लक्षणों का उपदेश।
पदार्थ -
(इयम्) यह [प्रत्यक्ष] (वेदिः) वेदि [विद्यमानता का बिन्दु वा यज्ञभूमि] (पृथिव्याः) पृथिवी का (परः) परला (अन्तः) अन्त है, (अयम्) यह [प्रत्यक्ष] (सोमः) ऐश्वर्यवान् रस [सोम औषध वा अन्न आदि का अमृत रस] (वृष्णः) पराक्रमी (अश्वस्य) बलवान् पुरुष का (रेतः) वीर्य [पराक्रम] है। (अयम्) यह [प्रत्यक्ष] (यज्ञः) यज्ञ [परमाणुओं का संयोग-वियोग व्यवहार] (विश्वस्य) सब (भुवनस्य) संसार की (नाभिः) नाभि [नियम में बाँधनेवाली शक्ति] है, (अयम्) यह [प्रत्यक्ष] (ब्रह्मा) ब्रह्मा [चारों वेदों का प्रकाशक परमेश्वर] (वाचः) वाणी [विद्या] का (परमम्) उत्तम (व्योम) [विविध रक्षास्थान] अवकाश है ॥१४॥
भावार्थ - १−पृथिवी गोल है, यदि मनुष्य किसी स्थान से सीधा बिना मुड़े किसी ओर चला जावे, तो वह चलते-चलते फिर वहीं आ पहुँचेगा, जहाँ से चला था। २-सब प्राणी सोम अर्थात् अन्न आदि के रस से बलवान् होते हैं। ३-परमाणुओं के संयोग-वियोग अर्थात् आकर्षण-अपकर्षण में सब संसार की नाभि अर्थात् स्थिति है। ४-परमेश्वर ही सब वाणियों अर्थात् विद्याओं का भण्डार है ॥१४॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१।१६४।३५। तथा यजु० २३।६२। तथा महर्षि दयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ १४७ में भी व्याख्यात है ॥
टिप्पणी -
१४−(इयम्) प्रत्यक्षा (वेदिः) हृपिषिरुहिवृतिविदि०। उ० ४।११९। विद सत्तायाम्, विद ज्ञाने, विद्लृ लाभे−इन्। विद्यमानताबिन्दुः। यज्ञभूमिः (परः) सीमापरिच्छिन्नः (अन्तः) सीमा (पृथिव्याः) (अयम्) (सोमः) ऐश्वर्यवान् रसः। सोमस्यान्नादेर्वा अमृतरसः (वृष्णः) म० १३। पराक्रमिणः (अश्वस्य) बलवतः पुरुषस्य (रेतः) वीर्यम् (अयम्) प्रत्यक्षः (यज्ञः) अ० १।९।४। यज देवपूजासङ्गतिकरणदानेषु-नङ्। परमाणूनां संयोगवियोगव्यवहारः (विश्वस्य) सर्वस्य (भुवनस्य) संसारस्य (नाभिः) म० १३। तुन्दकूपीवद् बन्धनशक्तिः (ब्रह्मा) बृंहेर्नोऽच्च। उ० ४।१४६। बृहि वृद्धौ-मनिन्, नस्य अकारः, रत्वम्। चतुर्णां वेदानां प्रकाशकः परमेश्वरः (अयम्) प्रत्यक्षः (वाचः) वाण्याः। विद्यायाः (परमम्) प्रकृष्टम् (व्योम) वि+अव रक्षणे-मनिन्। रक्षास्थानम्। अवकाशम् ॥