अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि। य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥
स्वर सहित पद पाठन । वि । जा॒ना॒मि॒ । यत्ऽइ॑व । इ॒दम् । अस्मि॑ । नि॒ण्य: । सम्ऽन॑ध्द: । मन॑सा । च॒रा॒मि॒ । य॒दा । मा॒ । आ॒ऽअग॑न् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । आत् । इत् । वा॒च: । अ॒श्नु॒वे॒ । भा॒गम् । अ॒स्या: ॥१५.१५॥
स्वर रहित मन्त्र
न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि। यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥
स्वर रहित पद पाठन । वि । जानामि । यत्ऽइव । इदम् । अस्मि । निण्य: । सम्ऽनध्द: । मनसा । चरामि । यदा । मा । आऽअगन् । प्रथमऽजा: । ऋतस्य । आत् । इत् । वाच: । अश्नुवे । भागम् । अस्या: ॥१५.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 15
विषय - जीवात्मा और परमात्मा के लक्षणों का उपदेश।
पदार्थ -
(यत्−इव) जो कुछ ही (इदम्) यह [कार्यरूप शरीर है, वही] (अस्मि) मैं हूँ, (न वि जानामि) मैं कुछ नहीं जानता, (निण्यः) गुप्त और (मनसा) मन से (सन्नद्धः) जकड़ा हुआ मैं (चरामि) विचरता हूँ। (यदा) जब (ऋतस्य) सत्य [स्वरूप परमात्मा] का (प्रथमजाः) प्रथम उत्पन्न [बोध] (मा) मुझको (आ-अगन्) आया है, (आत इत्) तभी (अस्याः) इस (वाचः) वाणी के (भागम्) सेवनीय परब्रह्म को (अश्नुवे) मैं पाता हूँ ॥१५॥
भावार्थ - अज्ञानी पुरुष मूढबुद्धि होकर शरीर आत्मा को अलग-अलग नहीं जानता। जब वह वेद द्वारा विद्या प्राप्त करता है तब शरीर, आत्मा और परमात्मा को जान लेता है ॥१५॥ यह मन्त्र ऋग्वेद में है−१।१६४।३७। और निरुक्त−७।३। और १४।२२। में भी है ॥
टिप्पणी -
१५−(न) निषेधे (वि) विशेषेण (जानामि) वेद्मि (यत्−इव) यत् किञ्चिदेव (इदम्) दृश्यमानं शरीरम् (अस्मि) अविवेकि जनोऽहम् (निण्यः) अघ्न्यादयश्च। उ० ४।११२। निर्+णीञ् प्रापणे-यक्, टिलोपो रेफलोपश्च। निण्यं निर्णीतान्तर्हितनाम-निघ० ३।२५। अन्तर्हितः। मूढचित्तः (सन्नद्धः) सम्यग् बद्धो वेष्टितः (मनसा) अन्तःकरणेन (चरामि) गच्छामि (यदा) यस्मिन् काले (मा) माम् (आ-अनन्) अ० ६।११६।२। गमेर्लुङ्। आगमत् (प्रथमजाः) अ० ६।१२२।१। जनेर्विट्। प्रथमोत्पन्नो बोधः (ऋतस्य) सत्यस्वरूपस्य परमात्मनः (आत्) अनन्तरम्। अव्यवधानेन (इत्) एव (वाचः) वाण्याः (अश्नुवे) प्राप्नोम (भागम्) भजनीयं पदं परब्रह्म (अस्याः) वेदविख्यातायाः ॥