अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्यानाम्। जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥
स्वर सहित पद पाठअ॒नत् । श॒ये॒ । तु॒रऽगा॑तु । जी॒वम् । एज॑त् । ध्रु॒वम् । मध्ये॑ । आ । प॒स्त्या᳡नाम् । जी॒व: । मृ॒तस्य॑ । च॒र॒ति॒ । स्व॒धाभि॑: । अम॑र्त्य: । मर्त्ये॑न । सऽयो॑नि: ॥१५.८॥
स्वर रहित मन्त्र
अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम्। जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥
स्वर रहित पद पाठअनत् । शये । तुरऽगातु । जीवम् । एजत् । ध्रुवम् । मध्ये । आ । पस्त्यानाम् । जीव: । मृतस्य । चरति । स्वधाभि: । अमर्त्य: । मर्त्येन । सऽयोनि: ॥१५.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 8
विषय - जीवात्मा और परमात्मा के लक्षणों का उपदेश।
पदार्थ -
(जीवम्) जीव को (अनत्) प्राण देता हुआ और (एजत्) चेष्टा कराता हुआ, (तुरगातु) शीघ्रगामी, (ध्रुवम्) निश्चल [ब्रह्म] (पस्त्यानाम्) घरों के (मध्ये) मध्य में (आ) सब ओर से (शये) सोता है [वर्तमान है]। (मृतस्य) मरण स्वभाववाले [शरीर] का (अमर्त्यः) अमरणस्वभाववाला (जीवः) जीव [आत्मा] (मर्त्येन) मरण धर्मवाले [जगत्] के साथ (सयोनिः) एकस्थानी होकर (स्वधाभिः) अपनी धारणशक्तियों से (चरति) चलता रहता है ॥८॥
भावार्थ - मन से अधिक वेगवाला [यजु० ४०।४] सर्वव्यापक ब्रह्म सब में वर्तमान रहकर जीवात्मा को उसके कर्मानुसार संसार के भीतर शरीरधारण करा के पुण्य-पाप का फल देता है ॥८॥
टिप्पणी -
८−(अनत्) अन्तर्गतण्यर्थः। प्राणयत् (शये) तलोपः। शेते। वर्तते (तुरगातु) कमिमनिजनिगा०। उ० १।७३। गाङ् गतौ गै शब्दे वा-तु। शीघ्रगामि ब्रह्म। मनसो जवीयः-यजु० ४०।४। (जीवम्) जीवात्मानम् (एजत्) एजयत्। कम्पयत् (ध्रुवम्) निश्चलम् (मध्ये) (आ) समन्तात् (पस्त्यानाम्) जनेर्यक्। उ० ४।१११। पस बाधे ग्रन्थे च-यक्, तुगागमः, यद्वा पत्लृ गतौ-यक्, सकार उपजनः। गृहाणाम्-निघ० ३।४। (जीवः) जीवात्मा (मृतस्य) मरणस्वभावस्य शरीरस्य (चरति) गच्छति (स्वधाभिः) अ० २।२९।७। स्व+डुधाञ् धारणपोषणदानेषु−क्विप्। आत्मधारणशक्तिभिः (अमर्त्यः) अमरणस्वभावः (मर्त्येन) मरणधर्मेण संसारेण सह (सयोनिः) समानस्थानः ॥