अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - चतुष्पदापुरस्कृतिभुरिगतिजगती
सूक्तम् - आत्मा सूक्त
वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः। वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥
स्वर सहित पद पाठवि॒ऽराट् । वाक् । वि॒ऽराट् । पृ॒थि॒वी । वि॒ऽराट् । अ॒न्तरि॑क्षम् । वि॒ऽराट् । प्र॒जाऽप॑ति: । वि॒ऽराट् । मृ॒त्यु: । सा॒ध्याना॑म् । अ॒धि॒ऽरा॒ज: । ब॒भू॒व॒ । तस्य॑ । भू॒तम् । भव्य॑म् । वशे॑ । स: । मे॒ । भू॒तम् । भव्य॑म् । वशे॑ । कृ॒णो॒तु॒॥१५.२४॥
स्वर रहित मन्त्र
विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः। विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥
स्वर रहित पद पाठविऽराट् । वाक् । विऽराट् । पृथिवी । विऽराट् । अन्तरिक्षम् । विऽराट् । प्रजाऽपति: । विऽराट् । मृत्यु: । साध्यानाम् । अधिऽराज: । बभूव । तस्य । भूतम् । भव्यम् । वशे । स: । मे । भूतम् । भव्यम् । वशे । कृणोतु॥१५.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 24
विषय - जीवात्मा और परमात्मा के लक्षणों का उपदेश।
पदार्थ -
(विराट्) विराट् [विविध ऐश्वर्यवाला परमात्मा] (वाक्) वाक् [विद्यास्वरूप], (विराट्) विराट् (पृथिवी) पृथिवी [पृथिवीसमान फैला हुआ], (विराट्) विराट् (अन्तरिक्षम्) अन्तरिक्ष [आकाशतुल्य व्यापक], (विराट्) विराट् (प्रजापतिः) प्रजापालक [सूर्यसमान है], (विराट्) विराट् [परमेश्वर], (मृत्युः) दुष्टों का मृत्यु और (साध्यानाम्) परोपकार साधनेवाले [साधु पुरुषों] का (अधिराजः) राजाधिराज (बभूव) हुआ है, (तस्य) उस [परमेश्वर] के (वशे) वश में (भूतम्) अतीतकाल और (भविष्यम्) भविष्यत् काल है (सः) वह (भूतम्) अतीतकाल और (भव्यम्) भविष्यत् काल को (मे) मेरे (वशे) वश में (कृणोतु) करे ॥२४॥
भावार्थ - सर्वशासक परमात्मा के ज्ञानपूर्वक सब मनुष्य भूतकाल के ज्ञान से दूरदर्शी होकर भविष्यत् का सुधार करें ॥२४॥ (विराट्) के लिये मिलान करें-अथर्व काण्ड ८ सूक्त १० ॥
टिप्पणी -
२४−(विराट्) अ० ८।९।१। राजृ दीप्तौ ऐश्वर्ये च−क्विप्। विविधैश्वर्यवान् परमात्मा (वाक्) विद्यारूपः (विराट्) (पृथिवी) पृथिवीवद् विस्तृतः (विराट्) (अन्तरिक्षम्) आकाशवद् व्यापकः (विराट्) (प्रजापतिः) सूर्यवत् प्रजापालकः (विराट्) (मृत्युः) दुष्टानां मारकः (साध्यानाम्) अ० ७।५।१। परोपकारसाधकानां साधूनाम् (अधिराजः) अधिपतिः (बभूव) (तस्य) परमेश्वरस्य (भूतम्) अतीतकालः (भव्यम्) भविष्यत्कालः (वशे) अधीनत्वे (सः) (मे) मम (भूतम्) (भव्यम्) (वशे) (कृणोतु) करोतु ॥