Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 24
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - जगती सूक्तम् - रुद्र सूक्त

    तुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि। तव॑ य॒क्षं प॑शुपते अ॒प्स्वन्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे ॥

    स्वर सहित पद पाठ

    तुभ्य॑म् । आ॒र॒ण्या: । प॒शव॑: । मृ॒गा: । वने॑ । हि॒ता: । हं॒सा: । सु॒ऽप॒र्णा: । श॒कु॒ना: । वयां॑सि । तव॑ । य॒क्षम् । प॒शु॒ऽप॒ते॒ । अ॒प्ऽसु । अ॒न्त: । तुभ्य॑म् । क्ष॒र॒न्ति॒ । दि॒व्या: । आप॑: । वृ॒धे ॥२.२४॥


    स्वर रहित मन्त्र

    तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि। तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥

    स्वर रहित पद पाठ

    तुभ्यम् । आरण्या: । पशव: । मृगा: । वने । हिता: । हंसा: । सुऽपर्णा: । शकुना: । वयांसि । तव । यक्षम् । पशुऽपते । अप्ऽसु । अन्त: । तुभ्यम् । क्षरन्ति । दिव्या: । आप: । वृधे ॥२.२४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 24

    टिप्पणीः - २४−(तुभ्यम्) तवाज्ञापालनाय (आरण्याः) अरण्ये भवाः (पशवः) जन्तवः (मृगाः) हरिणादयः (वने) अरण्ये (हिताः) स्थापिताः (हंसाः) पक्षिविशेषाः (सुपर्णाः) शोभनपतनाः (शकुनाः) शक्तिमन्तो गृध्रचिल्हादयः (वयांसि) पक्षिणः (तव) (यक्षम्) यक्ष पूजायाम्-घञ्। पूज्यं स्वरूपम् (पशुपते) हे दृष्टिमतां जीवानां रक्षक (अप्सु) आपो व्यापिकास्तन्मात्राः-दयानन्दभाष्ये, यजु० २७।२५। तन्मात्रासु (तुभ्यम्) (क्षरन्ति) संचरन्ति) (दिव्याः) अद्भुताः (आपः) तन्मात्राः (वृधे) वर्धनाय ॥˜

    इस भाष्य को एडिट करें
    Top