अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 19
मा नो॒ऽभि स्रा॑ म॒त्यं देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते। अ॒न्यत्रा॒स्मद्दि॒व्यां शाखां॒ वि धू॑नु ॥
स्वर सहित पद पाठमा । न॒: । अ॒भि । स्रा॒: । म॒त्य᳡म् । दे॒व॒ऽहे॒तिम् । मा । न॒: । क्रु॒ध॒: । प॒शु॒ऽप॒ते॒ । नम॑: । ते॒ । अ॒न्यत्र॑ । अ॒स्मत् । दि॒व्याम् । शाखा॑म् । वि । धू॒नु॒ ॥२.१९॥
स्वर रहित मन्त्र
मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते। अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥
स्वर रहित पद पाठमा । न: । अभि । स्रा: । मत्यम् । देवऽहेतिम् । मा । न: । क्रुध: । पशुऽपते । नम: । ते । अन्यत्र । अस्मत् । दिव्याम् । शाखाम् । वि । धूनु ॥२.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(नः) अस्मभ्यम् (अभि) अभितः (मा स्राः) सृज विसर्गे माङि लुङि रूपम्। सृजिदृशोर्झल्यमकिति। पा० ६।१।५९। अमागमः, वृद्धौ। झलो झलि। पा० ८।२।२६। सिचो लोपः। बहुलं छन्दसि। पा० ७।३।९७। ईडभावः। हल्ङ्याब्भ्यो दीर्घात्०। पा० ६।१।६८। सिलोपः, जलोपश्छान्दसः। मा स्राक्षीः। मा त्यज (मत्यम्) अ० ८।८।११। मतजनहलात् करण०। पा० ४।४।९७। मत-यत्। मतं ज्ञानं तस्य करणमिति। मुष्टिम् (देवहेतिम्) अद्भुतवज्रम् (नः) अस्मभ्यम् (मा क्रुधः) क्रुध कोपे माङि लुङि-पुषादित्वात् च्लेः अङ् आदेशः। क्रोधं मा कुरु (पशुपते) हे दृष्टिमतां जीवानां पालक (नमः) (ते) तुभ्यम्। (अन्यत्र) अन्येषु शत्रुषु (अस्मत्) अस्मत्तः (दिव्याम्) अद्भुताम् (शाखाम्) शाखृ व्याप्तौ-अच्, टाप्। बाहुम्-यथा शब्दकल्पद्रुमकोषे (वि) विविधम् (धूनु) कम्पय ॥
इस भाष्य को एडिट करें