Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 28
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - त्रिष्टुप् सूक्तम् - रुद्र सूक्त

    भव॑ राज॒न्यज॑मानाय मृड पशू॒नां हि प॑शु॒पति॑र्ब॒भूथ॑। यः श्र॒द्दधा॑ति॒ सन्ति॑ दे॒वा इति॒ चतु॑ष्पदे द्वि॒पदे॑ऽस्य मृड ॥

    स्वर सहित पद पाठ

    भव॑ । रा॒ज॒न् । यज॑मानाय । मृ॒ड॒ । प॒शू॒नाम् । हि । प॒शु॒ऽपति॑: । ब॒भूथ॑ । य: । श्र॒त्ऽदधा॑ति । सन्ति॑ । दे॒वा: । इति॑ । चतु॑:ऽपदे । द्वि॒ऽपदे॑ । अ॒स्य॒ । मृ॒डे॒ ॥२.२८॥


    स्वर रहित मन्त्र

    भव राजन्यजमानाय मृड पशूनां हि पशुपतिर्बभूथ। यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥

    स्वर रहित पद पाठ

    भव । राजन् । यजमानाय । मृड । पशूनाम् । हि । पशुऽपति: । बभूथ । य: । श्रत्ऽदधाति । सन्ति । देवा: । इति । चतु:ऽपदे । द्विऽपदे । अस्य । मृडे ॥२.२८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 28

    टिप्पणीः - २८−(भव) म० ३। हे सुखोत्पादक (राजन्) हे सर्वशासक (यजमानाय) देवपूजादिकर्त्रे (मृड) सुखं देहि (पशूनाम्) दृष्टिमतां जीवानां रक्षणायेति शेषः (हि) यस्मात् कारणात् (पशुपतिः) दृष्टिमतां पालकः (बभूथ) इडभावः। बभूविथ (यः) पुरुषः (श्रद्दधाति) श्रद्धां धारयति। विश्वसिति (सन्ति) भवन्ति (देवाः) दिव्यगुणाः परमेश्वरस्य (इति) वाक्यसमाप्तौ (चतुष्पदे) पादचतुष्टयोपेताय गवाश्वादिप्राणिने (द्विपदे) पादद्वयोपेताय मनुष्यादये (अस्य) श्रद्धाधारकस्य पुरुषस्य (मृड) ॥

    इस भाष्य को एडिट करें
    Top