अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 3
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - चतुष्पदा स्वराडुष्णिक्
सूक्तम् - रुद्र सूक्त
क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः। नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥
स्वर सहित पद पाठक्रन्दा॑य । ते॒ । प्रा॒णय॑ । या: । च॒ । ते॒ । भ॒व॒ । रोप॑य: । नम॑: । ते॒ । रु॒द्र॒ । कृ॒ण्म॒: । स॒ह॒स्र॒ऽअ॒क्षाय॑ । अ॒म॒र्त्य॒ ॥२.३॥
स्वर रहित मन्त्र
क्रन्दाय ते प्राणाय याश्च ते भव रोपयः। नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥
स्वर रहित पद पाठक्रन्दाय । ते । प्राणय । या: । च । ते । भव । रोपय: । नम: । ते । रुद्र । कृण्म: । सहस्रऽअक्षाय । अमर्त्य ॥२.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(क्रन्दाय) क्रदि आह्वाने रोदने च-घञ्। क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० ३।२।१४। क्रन्दं रोदनं नाशयितुम् (ते) तुभ्यम् (प्राणाय) प्राणं जीवनं वर्धयितुम् (याः) (च) (ते) तुभ्यम् (भव) भू-अप्। हे सुखोत्पादक (रोपयः) सर्वधातुभ्य इन्। उ० ४।११८। रुप विमोहने-इन्। विमोहिकाः पीडाः (नमः) सत्कारः (ते) तुभ्यम् (रुद्र) अ० २।२७।६। रु वधे-क्विप्, तुक्+रु वधे-ड। हे दुःखनाशक। यद्वा, रु गतौ-क्विप्+रा दाने-क। हे ज्ञानदातः (कृण्मः) कुर्मः (सहस्राक्षाय) अ० ३।११।३। सहस्रेषु बहुषु कर्मसु अक्षीणि दर्शनशक्तयो यस्य तस्मै (अमर्त्य) हे अमर ॥
इस भाष्य को एडिट करें