Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 30
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - चतुष्पदोष्णिक् सूक्तम् - रुद्र सूक्त

    रु॒द्रस्यै॑लबका॒रेभ्यो॑ऽसंसूक्तगि॒लेभ्यः॑। इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥

    स्वर सहित पद पाठ

    रु॒द्रस्य॑ । ऐ॒ल॒ब॒ऽका॒रेभ्य॑: । अ॒सं॒सू॒क्त॒ऽगि॒लेभ्य॑: । इ॒दम् । म॒हाऽआ॑स्येभ्य: । श्वऽभ्य॑: । अ॒क॒र॒म् । नम॑: ॥२.३०॥


    स्वर रहित मन्त्र

    रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः। इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥

    स्वर रहित पद पाठ

    रुद्रस्य । ऐलबऽकारेभ्य: । असंसूक्तऽगिलेभ्य: । इदम् । महाऽआस्येभ्य: । श्वऽभ्य: । अकरम् । नम: ॥२.३०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 30

    टिप्पणीः - ३०−(रुद्रस्य) चतुर्थ्यर्थे बहुलं छन्दसि। पा० २।३।६२। इति षष्ठी। रुद्राय। दुःखनाशकाय (ऐलवकारेभ्यः) आङ्+इल स्वप्नक्षेपणयोः-घञ्+वण, वण शब्दे-ड+करोतेः-अण्। आक्षेपध्वनिकारकेभ्यः (असंसूक्तगिलेभ्यः) जलिकल्यनिमहि०। उ० १।५४। अ+सम्+सूक्त+गॄ शब्दे-इलच्। असंसूक्तस्य अशुभवचनस्य भाषणशीलेभ्यः (इदम्) (महास्येभ्यः) विशालमुखेभ्यः (श्वभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति चतुर्थी। शुनः कुक्कुरान् निवारयितुम् (अकरम्) करोतेर्लुङ्। कृमृदृरुहिभ्यश्छन्दसि। पा० ३।१।५९। च्लेरङ्। अहं कृतवानस्मि ॥

    इस भाष्य को एडिट करें
    Top