Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 23
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - विराड्गायत्री सूक्तम् - रुद्र सूक्त

    यो॒न्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तोऽय॑ज्वनः प्रमृ॒णन्दे॑वपी॒यून्। तस्मै॒ नमो॑ द॒शभिः॒ शक्व॑रीभिः ॥

    स्वर सहित पद पाठ

    य: । अ॒न्तर‍ि॑क्षे । तिष्ठ॑ति । विऽस्त॑भित: । अय॑ज्वन: । प्र॒ऽमृ॒णन् । दे॒व॒ऽपी॒यून् । तस्मै॑ । नम॑: । द॒शऽभि॑: । शक्व॑रीभि: ॥२.२३॥


    स्वर रहित मन्त्र

    योन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन्देवपीयून्। तस्मै नमो दशभिः शक्वरीभिः ॥

    स्वर रहित पद पाठ

    य: । अन्तर‍िक्षे । तिष्ठति । विऽस्तभित: । अयज्वन: । प्रऽमृणन् । देवऽपीयून् । तस्मै । नम: । दशऽभि: । शक्वरीभि: ॥२.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 23

    टिप्पणीः - २३−(यः) परमेश्वरः (अन्तरिक्षे) आकाशे (तिष्ठति) वर्तते (विष्टभितः) विविधं स्तभितो दृढीभूतः सन् (अयज्वनः) अ० ३।२४।२। यजेर्ङ्वनिप्। देवपूजारहितान् दुर्जनान् (देवपीयून्) अ० ४।३५।७। विदुषां हिंसकान् (तस्मै) परमेश्वराय (नमः) प्रणामः (शक्वरीभिः) अ० ३।१७।७। शक्लृ शक्तौ-वनिप्, ङीब्रेफौ। उच्चनीचदिग्विदिशाभिः सह वर्तमानायेति शेषः ॥˜

    इस भाष्य को एडिट करें
    Top