अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 21
मा नो॒ गोषु॒ पुरु॑षेषु॒ मा गृ॑धो नो अजा॒विषु॑। अ॒न्यत्रो॑ग्र॒ वि व॑र्तय॒ पिया॑रूणां प्र॒जां ज॑हि ॥
स्वर सहित पद पाठमा । न॒: । गोषु॑ । पुरु॑षेषु । मा । गृ॒ध॒: । न॒: । अ॒ज॒ऽअ॒विषु॑ । अ॒न्यत्र॑ । उ॒ग्र॒ । वि । व॒र्त॒य॒ । पिया॑रूणाम् । प्र॒ऽजाम् । ज॒हि॒ ॥२.२१॥
स्वर रहित मन्त्र
मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु। अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥
स्वर रहित पद पाठमा । न: । गोषु । पुरुषेषु । मा । गृध: । न: । अजऽअविषु । अन्यत्र । उग्र । वि । वर्तय । पियारूणाम् । प्रऽजाम् । जहि ॥२.२१॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(मा) निषेधे (नः) अस्माकम् (गोषु) गवादिषु (पुरुषेषु) मनुष्येषु (मा गृधः) गृधु अभिकाङ्क्षायां माङि लुङि पुषादित्वात् च्लेः अङादेशः। अभिलाषं मा कुरु, नाशनायेति शेषः (नः) (अजाविषु) अजेषु अविषु च (अन्यत्र) अन्येषु शत्रुषु (उग्र) हे महाबलवन् (वि) विविधम् (वर्तय) वर्तस्व (पियारूणाम्) पीयतिर्हिंसाकर्मा-निघ० ४।२५। अङ्गिमदिमन्दिभ्य आरन्। उ० ३।१३४। अत्र बाहुलकात् पीयतेः-आरुप्रत्ययो ह्रस्वश्च। यद्वा पि गतौ-आरु। हिंसकानाम् (प्रजाम्) जनताम् (जहि) नाशय ॥
इस भाष्य को एडिट करें