अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 4
पु॒रस्ता॑त्ते॒ नमः॑ कृण्म उत्त॒राद॑ध॒रादु॒त। अ॑भीव॒र्गाद्दि॒वस्पर्य॒न्तरि॑क्षाय ते॒ नमः॑ ॥
स्वर सहित पद पाठपु॒रस्ता॑त् । ते॒ । नम॑: । कृ॒ण्म॒: । उ॒त्त॒रात् । अ॒ध॒रात् । उ॒त । अ॒भि॒ऽव॒र्गात् । दि॒व: । परि॑ । अ॒न्तरि॑क्षाय । ते॒ । नम॑: ॥२.४॥
स्वर रहित मन्त्र
पुरस्तात्ते नमः कृण्म उत्तरादधरादुत। अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ॥
स्वर रहित पद पाठपुरस्तात् । ते । नम: । कृण्म: । उत्तरात् । अधरात् । उत । अभिऽवर्गात् । दिव: । परि । अन्तरिक्षाय । ते । नम: ॥२.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(पुरस्तात्) अग्रे वर्तमानाद् देशात् (ते) तुभ्यम् (उत्तरात्) उपरिस्थानात् (अधरात्) अधःस्थानात् (उत) अपि च (अभीवर्गात्) अभि+वृजी वर्जने-घञ्। उपसर्गस्य घव्यमनुष्ये बहुलम्। पा० ६।३।१२२। इति दीर्घः। अभितो वृज्यते गृहादिभिः परिच्छिद्यते यः। अवकाशात् (दिवः) आकाशस्य (परि) (अन्तरिक्षाय) अन्तरिक्षं ज्ञातुम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें