अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 7
अस्त्रा॒ नील॑शिखण्डेन सहस्रा॒क्षेण॑ वा॒जिना॑। रु॒द्रेणा॑र्धकघा॒तिना॒ तेन॒ मा सम॑रामहि ॥
स्वर सहित पद पाठअस्त्रा॑ । नील॑ऽशिखण्डेन । स॒ह॒स्र॒ऽअ॒क्षेण॑ । वा॒जिना॑ । रु॒द्रेण॑ । अ॒र्ध॒क॒ऽघा॒तिना॑ । तेन॑ । मा । सम् । अ॒रा॒म॒हि॒ ॥२.७॥
स्वर रहित मन्त्र
अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना। रुद्रेणार्धकघातिना तेन मा समरामहि ॥
स्वर रहित पद पाठअस्त्रा । नीलऽशिखण्डेन । सहस्रऽअक्षेण । वाजिना । रुद्रेण । अर्धकऽघातिना । तेन । मा । सम् । अरामहि ॥२.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(अस्त्रा) अस दीप्तौ-तृन्, इडभावः। प्रकाशमानः (नीलशिखण्डेन) अ० २।२७।६। णीञ् प्रापणे-रक्, रस्य लः। नीयते प्राप्यते स नीलो निधिः। शिख शिखि गतौ-अण्डन्। निधीनां शिखण्डः प्राप्तिर्यस्मात् तेन। निधीनां प्रापकेण (सहस्राक्षेण) म० ३। सहस्रेषु कर्मसु दृष्टियुक्तेन (वाजिना) बलवता (रुद्रेण) म० ३। दुःखनाशकेन परमात्मना (अर्धकघातिना) अर्द हिंसायाम्-ण्वुल्, दस्य धः+हन हिंसागत्योः णिनि। हनस्तोऽचिण्णलोः पा० ७।३।३२। इति तत्वम्। हो हन्तेर्ञ्णिन्नेषु। पा० ७।३।५४। इति घत्वम्। अर्दकानां हिंसकानां नाशकेन (तेन) प्रसिद्धेन (मा सम् अरामहि) ऋ गतौ-माङि लुङि रूपम्। समो गम्यृच्छिप्रच्छि०। पा० १।३।२९। इत्यात्मनेपदम्। सर्तिशास्त्यर्तिभ्यश्च। पा० ३।१।५६। इति च्लेरङादेशः। समरं युद्धं न करवाम ॥
इस भाष्य को एडिट करें