अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 17
स॑हस्रा॒क्षम॑तिप॒श्यं पु॒रस्ता॑द्रु॒द्रमस्य॑न्तं बहु॒धा वि॑प॒श्चित॑म्। मोपा॑राम जि॒ह्वयेय॑मानम् ॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽअ॒क्षम् । अ॒ति॒ऽप॒श्यम् । पु॒रस्ता॑त् । रु॒द्रम् । अस्य॑न्तम् । ब॒हु॒ऽधा । वि॒प॒:ऽचित॑म् । मा । उप॑ । अ॒रा॒म॒ । जि॒ह्वया॑ । ईय॑मानम् ॥२.१७॥
स्वर रहित मन्त्र
सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम्। मोपाराम जिह्वयेयमानम् ॥
स्वर रहित पद पाठसहस्रऽअक्षम् । अतिऽपश्यम् । पुरस्तात् । रुद्रम् । अस्यन्तम् । बहुऽधा । विप:ऽचितम् । मा । उप । अराम । जिह्वया । ईयमानम् ॥२.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(सहस्राक्षम्) सहस्रेषु कर्मसु दृष्टियुक्तम् (अतिपश्यम्) पाघ्राध्माधेट्दृशः शः। पा० ३।१।१३७। दृशिर् प्रेक्षणे-श प्रत्ययः। पाघ्राध्माधेट्०। पा० ७।३।७८। पश्यादेशः। सर्वानतिक्रम्य द्रष्टा (पुरस्तात्)) अग्रे (रुद्रम्) दुःखनाशकम् (अस्यन्तम्) शत्रुं क्षिपन्तम् (बहुधा) अनेकप्रकारेण (विपश्चितम्) मेधाविनम्। सूक्ष्मदर्शिनम् (मा उप अराम) ऋ गतौ हिंसायां वा माङि लुङि रूपम्। न हिंसेम (जिह्वया) शेवायह्वजिह्वा०। उ० १।१५४। जि जये-वन् हुक् च। जयशक्त्या सह (ईयमानम्) गच्छन्तम्। व्याप्नुवन्तम् ॥
इस भाष्य को एडिट करें