Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 12
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - रुद्र सूक्त

    धनु॑र्बिभर्षि॒ हरि॑तं हिर॒ण्ययं॑ सहस्र॒घ्नि श॒तव॑धं शिखण्डिन्। रु॒द्रस्येषु॑श्चरति देवहे॒तिस्तस्यै॒ नमो॑ यत॒मस्यां॑ दि॒शी॒तः ॥

    स्वर सहित पद पाठ

    धनु॑: । बि॒भ॒र्षि॒ । हरि॑तम् । हि॒र॒ण्यय॑म् । स॒ह॒स्र॒ऽघ्नि । श॒तऽव॑धम् । शि॒ख॒ण्डि॒न् । रु॒द्रस्य॑ । इषु॑: । च॒र॒ति॒ । दे॒व॒ऽहे॒ति: । तस्यै॑ । नम॑: । य॒त॒मस्या॑म् । दि॒शि । इ॒त: ॥२.१२॥


    स्वर रहित मन्त्र

    धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्नि शतवधं शिखण्डिन्। रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥

    स्वर रहित पद पाठ

    धनु: । बिभर्षि । हरितम् । हिरण्ययम् । सहस्रऽघ्नि । शतऽवधम् । शिखण्डिन् । रुद्रस्य । इषु: । चरति । देवऽहेति: । तस्यै । नम: । यतमस्याम् । दिशि । इत: ॥२.१२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 12

    टिप्पणीः - १२−(धनुः) चापम् (बिभर्षि) धारयसि (हरितम्) हृश्याभ्यामितन्। उ० ३।९३। हृञ् नाशने-इतन्। शत्रुनाशकम् (हिरण्ययम्) हिरण्यं रेतो वीर्यं बलम्, तेन युक्तम् (सहस्रघ्नि) भुजेः किच्च। उ० ४।१४२। सहस्र+हन हिंसागत्योः-इप्रत्ययः, कित्। सहस्रशत्रुनाशकम् (शतवधम्) वधो वज्रनाम-निघ० २।२०। अनेकायुधोपेतम् (शिखण्डिन्) अ० ३७।४। शिख गतौ-अण्डन् कित्, तत इनि। हे महोद्योगिन् (रुद्रस्य) दुःखनाशकस्य (इषुः) बाणः (चरति) विचरति (देवहेतिः) अद्भुतवज्रः (तस्यै) तां निवारयितुम् (नमः) (यतमस्याम्) यस्यां कस्याम् (दिशि) दिशायाम् (इतः) अस्मात् स्थानात् ॥

    इस भाष्य को एडिट करें
    Top