Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 10
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    अथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑। पौरु॑षे॒येऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑ ॥

    स्वर सहित पद पाठ

    अथो॒ इति॑ । सर्व॑म् । श्वाप॑दम् । मक्षि॑का । तृ॒प्य॒तु॒ । क्रिमि॑: । पौरु॑षेये । अधि॑ । कुण॑पे । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१०॥


    स्वर रहित मन्त्र

    अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः। पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥

    स्वर रहित पद पाठ

    अथो इति । सर्वम् । श्वापदम् । मक्षिका । तृप्यतु । क्रिमि: । पौरुषेये । अधि । कुणपे । रदिते । अर्बुदे । तव ॥११.१०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 10

    टिप्पणीः - १०−(अथो) अपि च (सर्वम्) (श्वापदम्) शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः। वा० पा० ६।३।१३७। दीर्घः। शुन इव पदं यस्य सः श्वापदः, ततः समूहार्थे-अण्। हिंस्रपशूनां शृगालादीनां समूहः (मक्षिका) अ० ११।२।२। कीटभेदः (तृप्यतु) (क्रिमिः) (पौरुषेये) अ० ७।१०५।१। पुरुष−ढञ्। पुरुषसम्बन्धिनि (अधि) उपरि (कुणपे) क्वणेः सम्प्रसारणं च। उ० ३।१४३। क्वण शब्दे-कपन्, सम्प्रसारणम्, यद्वा कुण शब्दोपकरणयोः-कपन्। मृतदेहे। शवे। अन्यत् पूर्ववत्-म० ७ ॥

    इस भाष्य को एडिट करें
    Top