अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 14
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
प्र॑तिघ्ना॒नाः सं धा॑व॒न्तूरः॑ पटू॒रावा॑घ्ना॒नाः। अ॑घा॒रिणी॑र्विके॒श्यो रुद॒त्यः पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठप्र॒ति॒ऽघ्ना॒ना: । सम् । धा॒व॒न्तु॒ । उर॑: । प॒टू॒रौ । आ॒ऽघ्ना॒ना: । अ॒घा॒रिणी॑: । वि॒ऽके॒श्य᳡: । रु॒द॒त्य᳡: । पुरु॑षे । ह॒ते । र॒दि॒ते ।अ॒र्बु॒दे॒ । तव॑ ॥११.१४॥
स्वर रहित मन्त्र
प्रतिघ्नानाः सं धावन्तूरः पटूरावाघ्नानाः। अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥
स्वर रहित पद पाठप्रतिऽघ्नाना: । सम् । धावन्तु । उर: । पटूरौ । आऽघ्नाना: । अघारिणी: । विऽकेश्य: । रुदत्य: । पुरुषे । हते । रदिते ।अर्बुदे । तव ॥११.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(प्रतिघ्नानाः) म० ७। ताडयन्त्यः (संधावन्तु) इतस्ततः शीघ्रं गच्छन्तु (उरः) वक्षःस्थलम् (पटूरौ) मीनातेरूरम्। उ० १।६७। पट गतौ दीप्तौ वेष्टने च-ऊरन्। उरःप्रदेशौ। कण्ठाधोभागौ (आघ्नानाः) म० ७। हन शानच्। समन्तात् पीडयन्त्यः (अघारिणीः) अ+घृ सेके-घञ्, अघार-इनि, ङीप्। अघारिण्यः। घारेण सेचनद्रव्येण तैलादिना रहिताः (विकेश्यः) अ० १।२८।४। विकीर्णकेशाः (रुदत्यः) अश्रून् विमोचयन्त्यः। अन्यद् गतम् म० ७ ॥
इस भाष्य को एडिट करें