अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 17
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्रिपदा गायत्री
सूक्तम् - शत्रुनिवारण सूक्त
चतु॑र्दंष्ट्राञ्छ्या॒वद॑तः कु॒म्भमु॑ष्काँ॒ असृ॑ङ्मुखान्। स्व॑भ्य॒सा ये चो॑द्भ्य॒साः ॥
स्वर सहित पद पाठचतु॑:ऽदंष्ट्रान् । श्या॒वऽद॑त: । कु॒म्भऽमु॑ष्कान् । असृ॑क्ऽमुखान् । स्व॒ऽभ्य॒सा: । ये । चे॒ । उ॒त्ऽभ्य॒सा: ॥११.१७॥
स्वर रहित मन्त्र
चतुर्दंष्ट्राञ्छ्यावदतः कुम्भमुष्काँ असृङ्मुखान्। स्वभ्यसा ये चोद्भ्यसाः ॥
स्वर रहित पद पाठचतु:ऽदंष्ट्रान् । श्यावऽदत: । कुम्भऽमुष्कान् । असृक्ऽमुखान् । स्वऽभ्यसा: । ये । चे । उत्ऽभ्यसा: ॥११.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(चतुर्दंष्ट्रान्) चतुर्दन्तान् महागजान् (श्यावदतः) श्यामवर्णदन्तयुक्तान् (कुम्भमुष्कान्) कुम्भाकृतिमुष्कयुक्तान् (असृङ्मुखान्) रुधिरमुखान् सिंहादीन् (स्वभ्यसाः) भ्यस भये-घञर्थे क प्रत्ययः। स्वेन आत्मना स्वभावेन भयानकाः (ये) (च) (उद्भ्यसाः) ऊर्ध्वप्रकारेण भयानकाः ॥
इस भाष्य को एडिट करें