अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 23
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
अर्बु॑दिश्च॒ त्रिष॑न्धिश्चा॒मित्रा॑न्नो॒ वि वि॑ध्यताम्। यथै॑षामिन्द्र वृत्रह॒न्हना॑म शचीपते॒ऽमित्रा॑णां सहस्र॒शः ॥
स्वर सहित पद पाठअर्बु॑दि: । च॒ । त्रिऽसं॑धि: । च॒ । अ॒मित्रा॑न् । न॒: । वि । वि॒ध्य॒ता॒म् । यथा॑ । ए॒षा॒म् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । हना॑म । श॒ची॒ऽप॒ते॒ । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥११.२३॥
स्वर रहित मन्त्र
अर्बुदिश्च त्रिषन्धिश्चामित्रान्नो वि विध्यताम्। यथैषामिन्द्र वृत्रहन्हनाम शचीपतेऽमित्राणां सहस्रशः ॥
स्वर रहित पद पाठअर्बुदि: । च । त्रिऽसंधि: । च । अमित्रान् । न: । वि । विध्यताम् । यथा । एषाम् । इन्द्र । वृत्रऽहन् । हनाम । शचीऽपते । अमित्राणाम् । सहस्रऽश: ॥११.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(अर्बुदिः) म० १। शूरः सेनापतिः राजा (च) (त्रिषन्धिः) त्रिषु कर्मोपासनाज्ञानेषु सन्धिः संयोगः प्रीतिर्यस्य स त्रयीकुशलो विद्वान् पुरुषः (च) (अमित्रान्) (शत्रून्) (नः) अस्माकम् (वि) विविधम् (विध्यताम्) बहु ताडयताम् (यथा) येन प्रकारेण (एषाम्) कर्मणि षष्ठी। इमान् (इन्द्र) हे परमैश्वर्यवन् राजन् (वृत्रहन्) अन्धकारनाशक (हनाम) मारयाम (शचीपते) म० २०। शचीनां वाचां कर्मणां प्रज्ञानां च पालक (अमित्राणाम्) शत्रूणाम् (सहस्रशः) अ० ८।८।१। सहस्रं सहस्रम् ॥
इस भाष्य को एडिट करें