Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 4
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसानोष्णिग्बृहतीगर्भा षट्पदातिजगती सूक्तम् - शत्रुनिवारण सूक्त

    अर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्यर्बुदिः। याभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही। ताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या ॥

    स्वर सहित पद पाठ

    अर्बु॑दि: । नाम॑ । य: । दे॒व: । ईशा॑न: । च॒ । निऽअ॑र्बुदि : । याभ्या॑म् । अ॒न्तरि॑क्षम् । आऽवृ॑तम् । इ॒यम् । च॒ । पृ॒थि॒वी । म॒ही । ताभ्या॑म् । इन्द्र॑मेदिऽभ्याम् । अ॒हम् । जि॒तम् । अनु॑ । ए॒मि॒ । सेन॑या ॥११.४॥


    स्वर रहित मन्त्र

    अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः। याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही। ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥

    स्वर रहित पद पाठ

    अर्बुदि: । नाम । य: । देव: । ईशान: । च । निऽअर्बुदि : । याभ्याम् । अन्तरिक्षम् । आऽवृतम् । इयम् । च । पृथिवी । मही । ताभ्याम् । इन्द्रमेदिऽभ्याम् । अहम् । जितम् । अनु । एमि । सेनया ॥११.४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 4

    टिप्पणीः - ४−(अर्बुदिः) म० १। शूरसेनापती राजा (नाम) प्रसिद्धौ (यः) (देवः) विजिगीषुः (ईशानः) ईशिता (च) (न्यर्बुदिः) नि+अर्ब गतौ हिंसायां च-उदिच्। निरन्तरपुरुषार्थी प्रजागणः (याभ्याम्) अर्बुदिन्यर्बुदिभ्याम् (अन्तरिक्षम्) (आवृतम्) आच्छादितम् (इयम्) दृश्यमाना (च) (पृथिवी) (मही) महती (ताभ्याम्) (इन्द्रमेदिभ्याम्) ञिमिदा स्नेहने-णिनि। जीवानां स्नेहिभ्याम् (अहम्) प्रजागणः (जितम्) जयेन प्राप्तं प्रयोजनम् (अनु) निरन्तरम् (एमि) प्राप्नोमि (सेनया) स्वसेनया ॥

    इस भाष्य को एडिट करें
    Top