Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 22
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा शक्वरी सूक्तम् - शत्रुनिवारण सूक्त

    ये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये। त॑म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    ये । च॒ । धीरा॑: । ये । च॒ । अधी॑रा: । परा॑ञ्च: । ब॒धि॒रा: । च॒ । ये । त॒म॒सा: । ये । च॒ । तू॒प॒रा: । अथो॒ इति॑ । ब॒स्त॒ऽअ॒भि॒वा॒सिन॑:। सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२२॥


    स्वर रहित मन्त्र

    ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये। तमसा ये च तूपरा अथो बस्ताभिवासिनः। सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥

    स्वर रहित पद पाठ

    ये । च । धीरा: । ये । च । अधीरा: । पराञ्च: । बधिरा: । च । ये । तमसा: । ये । च । तूपरा: । अथो इति । बस्तऽअभिवासिन:। सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.२२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 22

    टिप्पणीः - २२−(ये) मनुष्याः) (च) (धीराः) धैर्यवन्तः। प्रज्ञानवन्तो ध्यानवन्तः निरु० ४।१०। (ये) (च) (अधीराः) चञ्चलाः (पराञ्चः) पराङ्मुखाः। पलायमानाः (बधिराः) शिक्षायां हतश्रवणसामर्थ्याः (च) (ये) (तमसाः) तमस्-अर्शआद्यच्। अन्धकारेण युक्ताः शठाः (ये) (च) (तूपराः) ऋच्छेररः। उ० ३।१३१। तुप हिंसायाम्-अर प्रत्ययः, गुणाभावे दीर्घः। हिंसकाः (अथो) अपि च (बस्ताभिवासिनः) वस्त गतिहिंसायाचनेषु-घञ्, वस्य बः+वस निवासे-णिनि। गतिषु उद्योगेषु निवासशीलाः (सर्वान्) (तान्) अन्यद्गतम्-म० १ ॥

    इस भाष्य को एडिट करें
    Top