अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 19
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
प्रब्ली॑नो मृदि॒तः श॑यां ह॒तोऽमित्रो॑ न्यर्बुदे। अ॑ग्निजि॒ह्वा धू॑मशि॒खा जय॑न्तीर्यन्तु॒ सेन॑या ॥
स्वर सहित पद पाठप्रऽब्ली॑न: । मृ॒दि॒त: । श॒या॒म् । ह॒त: । अ॒मित्र॑: । नि॒ऽअ॒र्बु॒दे॒ । अ॒ग्नि॒ऽजि॒ह्वा: । धू॒म॒ऽशि॒खा: । जय॑न्ती: । य॒न्तु॒ । सेन॑या ॥११.१९॥
स्वर रहित मन्त्र
प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे। अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥
स्वर रहित पद पाठप्रऽब्लीन: । मृदित: । शयाम् । हत: । अमित्र: । निऽअर्बुदे । अग्निऽजिह्वा: । धूमऽशिखा: । जयन्ती: । यन्तु । सेनया ॥११.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(प्रब्लीनः) व्ली स्वीकरणे वेष्टने गतौ च-क्त, वस्य बः। वेष्टितः। आच्छादितः (मृदितः) संपिष्टगात्रः (शयाम्) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। तलोपः। शेताम् (हतः) नाशितः (अमित्रः) पीडकः शत्रुः (न्यर्बुदे) म० ४। हे निरन्तरपुरुषार्थिन् प्रजागण (अग्निजिह्वाः) आग्नेयशस्त्राणामग्नेर्ज्वालाः (धूमशिखाः) धूमस्य शिखररूपाः समुच्चयाः (जयन्तीः) शत्रुबलं जयन्त्यः (यन्तु) गच्छन्तु (सेनया) ॥
इस भाष्य को एडिट करें