अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 20
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्। अ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न ॥
स्वर सहित पद पाठतया॑ । अ॒र्बु॒दे॒ । प्रऽनु॑त्तानाम् । इन्द्र॑: । ह॒न्तु॒ । वर॑म्ऽवरम् । अ॒मित्रा॑णाम् । श॒ची॒ऽपति॑: । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥११.२०॥
स्वर रहित मन्त्र
तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम्। अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥
स्वर रहित पद पाठतया । अर्बुदे । प्रऽनुत्तानाम् । इन्द्र: । हन्तु । वरम्ऽवरम् । अमित्राणाम् । शचीऽपति: । मा । अमीषाम् । मोचि । क: । चन ॥११.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(तया) सेनया (अर्बुदे) म० १। हे शूरसेनापते राजन् (प्रणुत्तानाम्) बहिष्प्रेरितानाम् (इन्द्रः) परमैश्वर्यवान् सेनापतिः (हन्तु) मारयतु (वरंवरम्) अ० ६।६७।२। श्रेष्ठं श्रेष्ठं नायकम् (अमित्राणाम्) (शचीपतिः) अ० ३।१०।१२। शची=वाक्-निघ० १।११। कर्म २।१। प्रज्ञा−३।९। शचीनां वाचां कर्मणां प्रज्ञानां च पालकः। यथार्थवक्ता यथार्थकर्मा यथार्थप्रज्ञश्च (अमीषाम्) शत्रूणाम् (मा मोचि) अ० ३।१९।८। मा मुच्यताम् (कश्चन) कोऽपि ॥
इस भाष्य को एडिट करें