अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 25
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा शक्वरी
सूक्तम् - शत्रुनिवारण सूक्त
ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑। ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः। ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठई॒शाम् । व॒: । म॒रुत॑: । दे॒व: । आ॒दि॒त्य: । ब्रह्म॑ण: । पति॑: । ई॒शाम् । व॒: । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । धा॒ता । मि॒त्र: । प्र॒जाऽप॑ति: । ई॒शाम् । व॒: । ऋष॑य: । च॒क्रु॒: । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.२५॥
स्वर रहित मन्त्र
ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः। ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः। ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठईशाम् । व: । मरुत: । देव: । आदित्य: । ब्रह्मण: । पति: । ईशाम् । व: । इन्द्र: । च । अग्नि: । च । धाता । मित्र: । प्रजाऽपति: । ईशाम् । व: । ऋषय: । चक्रु: । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(ईशाम्) प्रत्ययश्रवणसामर्थ्यात्, चक्रुरिति अन्ते श्रूयमाणं सर्वत्र संबध्यते। ईशांचक्रुः (वः) अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति षष्ठी। युष्माकम् (मरुतः) अ० १।२०।१। शूरवीराः पुरुषाः (देवः) विजिगीषुः (आदित्यः) अ० १।९।१। अ+दो अवखण्डने-क्तिन्, अदिति-ण्य। अदितिर्व्रतखण्डराहित्यं यस्य सः। अखण्डव्रती (ब्रह्मणः) वेदस्य (पतिः) पालकः (ईशाम्) (वः) (इन्द्रः) परमैश्वर्यवान् पुरुषः (च) (अग्निः) तेजस्वी (च) (धाता) धाता (मित्रः) प्रेरकः (प्रजापतिः) प्रजापालकः (ईशांचक्रुः) ईश ऐश्वर्ये-लिट्। इजादेश्च गुरुमतोऽनृच्छः। पा० ३।१।३६। आम् प्रत्ययः। आम् प्रत्ययवत् कृञोऽनुप्रयोगस्य। पा० १।३।६३। अनुप्रयुज्यमानस्य करोतेरात्मनेपदाभावश्छान्दसः। ईशांचक्रिरे। ईश्वरा नियन्तारो बभूवुः (वः) (ऋषयः) अ० २।६।१। साक्षात्कृतधर्माणः। अन्यद् गतम् म० ९ ॥
इस भाष्य को एडिट करें