अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 5
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह। भ॒ञ्जन्न॒मित्रा॑णां॒ सेनां॑ भो॒गेभिः॒ परि॑ वारय ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒ । त्वम् । दे॒व॒ऽज॒न॒ । अर्बु॑दे । सेन॑या । स॒ह । भ॒ञ्जन् । अ॒मित्रा॑णाम् । सेना॑म् । भो॒गेभि॑: । परि॑ । वा॒र॒य॒ ॥११.५॥
स्वर रहित मन्त्र
उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह। भञ्जन्नमित्राणां सेनां भोगेभिः परि वारय ॥
स्वर रहित पद पाठउत् । तिष्ठ । त्वम् । देवऽजन । अर्बुदे । सेनया । सह । भञ्जन् । अमित्राणाम् । सेनाम् । भोगेभि: । परि । वारय ॥११.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(उत्तिष्ठ) उद्गच्छ (त्वम्) (देवजन) हे विजिगीषुजन (अर्बुदे) म० १। हे शूर सेनापते (सेनया) (सह) (भञ्जन्) आमर्दयन्। चूर्णयन् (अमित्राणाम्) शत्रूणाम् (सेनाम्) (भोगेभिः) भुजो कौटिल्ये-घञ्। भोगैः। सर्पशरीरवत् सेनाव्यूहविशेषैः (परिवारय) सर्वतो वेष्टय ॥
इस भाष्य को एडिट करें