अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 13
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
मुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि। मैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठमुह्य॑न्तु । ए॒षा॒म् । बा॒हव॑: । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । मा । ए॒षा॒म् । उत् । शे॒षि॒ । किम् । च॒न । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१३॥
स्वर रहित मन्त्र
मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि। मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥
स्वर रहित पद पाठमुह्यन्तु । एषाम् । बाहव: । चित्तऽआकूतम् । च । यत् । हृदि । मा । एषाम् । उत् । शेषि । किम् । चन । रदिते । अर्बुदे । तव ॥११.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(मुह्यन्तु) मूढा निरर्थका भवन्तु (एषाम्) शत्रूणाम् (बाहवः) (चित्ताकूत्तम्) म० १। विचाराणां सङ्कल्पानां च समाहारः (च) (यत्) (हृदि) हृदये (एषाम्) (मा उच्छेषि) शिष्लृ विशेषणे-कर्मणि लुङ्। अवशिष्टं मा भूत् (किंचन) तत् किमपि। अन्यद् गतम्-म० ७ ॥
इस भाष्य को एडिट करें