अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 10
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
परि॑वृ॒क्ता च॒ महि॑षी स्व॒स्त्या च यु॒धिंग॒मः। अना॑शु॒रश्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ॥
स्वर सहित पद पाठपरि॑वृ॒क्ता । च॒ । महि॑षी । स्व॒स्त्या॑ । च । यु॒धिंग॒म: ॥ अना॑शु॒र: । च । आया॒मी । तो॒ता । कल्पे॑षु । सं॒मिता ॥१२८.१०॥
स्वर रहित मन्त्र
परिवृक्ता च महिषी स्वस्त्या च युधिंगमः। अनाशुरश्चायामी तोता कल्पेषु संमिता ॥
स्वर रहित पद पाठपरिवृक्ता । च । महिषी । स्वस्त्या । च । युधिंगम: ॥ अनाशुर: । च । आयामी । तोता । कल्पेषु । संमिता ॥१२८.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(परिवृक्ता) त्यक्ता। स्वकर्तव्यविरक्ता (च) उपमार्थे (महिषी) मह पूजायाम्-टिषच् ङीप्। पूजनीया गुणवती पत्नी (स्वस्त्या) सुखेन। अनायासेन (च) समुच्चये (युधिंगमः) इगुपधात् कित्। उ० ४।१२०। युध संप्रहारे-इन् कित्+गम्लृ गतौ-खच्, मुम् च। युधेर्युद्धाद् गमनशीलाः पलायनशीलः (अनाशुरः) शावशेराप्तौ। उ० १।४४। अन्+अशू व्याप्तौ-उरन्, स च णित्। अनाशुः। अशीघ्रः। आलस्यवान् (च) (आयामी) आ+यम वेष्टने नियमने णिच्-णिनि। आ समन्ताद् यामयति नियामयति प्रजागणान्। नियन्ता। शासकः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें