अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 12
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यदि॑न्द्रादो दाशरा॒ज्ञे मानु॑षं॒ वि गा॑हथाः। विरू॑पः॒ सर्व॑स्मा आसीत्स॒ह य॒क्षाय॒ कल्प॑ते ॥
स्वर सहित पद पाठयत् । इ॑न्द्र । अ॒द: । दा॑शरा॒ज्ञे । मानु॑ष॒म् । वि । गा॑हथा: ॥ विरू॑प॒: । सर्व॑स्मै । आसीत् । स॒ह । य॒क्षाय॒ । कल्प॑ते ॥१२८.१२॥
स्वर रहित मन्त्र
यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः। विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥
स्वर रहित पद पाठयत् । इन्द्र । अद: । दाशराज्ञे । मानुषम् । वि । गाहथा: ॥ विरूप: । सर्वस्मै । आसीत् । सह । यक्षाय । कल्पते ॥१२८.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(यत्) यदा (इन्द्र) परमैश्वर्यवन् मनुष्य (अदः) तत्। वेदोक्तम् (दाशराज्ञे) दाशृ दाने-घञ्। राजृ दीप्तौ ऐश्वर्ये च-कनिन्। दाशानां दानीयानां दानपात्राणां भृत्यानां स्वामिहिताय। स्वार्थाय (मानुषम्) मनु-अण् षुक् च। मनुष्यसम्बन्धि कर्म (वि गाहथाः) गाहृ विलोडने-लुङ्, अडभावः। विलोडितवानसि (विरूपः) विकृतरूपो दुष्टरूपो व्यवहारः (सर्वस्मै) प्रत्येकप्राणिने (आसीत्) (सह) संयोगेन (यक्षाय) यक्ष पूजायाम्-घञ्। पूजनीयकर्मणे (कल्पते) कृपू सामर्थ्ये। समर्थो भवति ॥
इस भाष्य को एडिट करें