अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 13
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - विराडार्ष्यनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
त्वं वृ॑षा॒क्षुं म॑घव॒न्नम्रं॑ म॒र्याकरो॒ रविः॑। त्वं रौ॑हि॒णं व्यास्यो॒ वि वृ॒त्रस्याभि॑न॒च्छिरः॑ ॥
स्वर सहित पद पाठत्वम् । वृ॑षा । अ॒क्षुम् । म॑घव॒न् । नम्र॑म् । म॒र्य । आक॒र: । रवि॑: ॥ त्वम् । रौ॑हि॒णम् । व्या॑स्य॒: । वि । वृ॒त्रस्य॑ । अभि॑न॒त् । शिर॑: ॥१२८.१३॥
स्वर रहित मन्त्र
त्वं वृषाक्षुं मघवन्नम्रं मर्याकरो रविः। त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥
स्वर रहित पद पाठत्वम् । वृषा । अक्षुम् । मघवन् । नम्रम् । मर्य । आकर: । रवि: ॥ त्वम् । रौहिणम् । व्यास्य: । वि । वृत्रस्य । अभिनत् । शिर: ॥१२८.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(त्वम्) (वृषा) बलवान् (अक्षुम्) अ० ९।३।८। अक्षू व्याप्तौ-उप्रत्ययः। व्यापनशीलं प्रवीणम् (मघवन्) धनवन् (नम्रम्) विनीतं पुरुषम् (मर्य) हे मनुष्य (आकरः) आ-अकरः। आङ्+डुकृञ् आह्वाने-लुङ्। आहूतवानसि (रविः) सूर्यवत्प्रतापी सन् (त्वम्) (रौहिणम्) अथ० २०।३४।१३। मेघमिवान्धकारकरं दुष्टम् (व्यास्यः) असु क्षेपे-लुङ्। प्रक्षिप्तवानसि (वि) पृथग्भावे (वृत्रस्य) शत्रुः (अभिनत्) अभिदः। भिन्नवानसि (शिरः) ॥
इस भाष्य को एडिट करें